Atharva Veda
Kaanda 2, Sukta 14, Verse 1
वस्युनाशनम् ।
निः॒सालां धृ॒ष्णुं धि॒षण॑मेकवा॒द्यां जि॑घ॒त्स्वऽम् ।
सर्वा॒श्चण्ड॑स्य न॒प्त्योऽ ना॒शया॑मः स॒दान्वाः॑
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
वस्युनाशनम् ।
निः॒सालां धृ॒ष्णुं धि॒षण॑मेकवा॒द्यां जि॑घ॒त्स्वऽम् ।
सर्वा॒श्चण्ड॑स्य न॒प्त्योऽ ना॒शया॑मः स॒दान्वाः॑
निर्वो॑ गो॒ष्ठाद॑जामसि॒ निरक्षा॒न्निरु॑पान॒सात् ।
निर्वो॑ मगुन्द्या दुहितरो गृ॒हेभ्य॑श्चातयामहे
अ॒सौ यो अ॑ध॒राद् गृ॒हस्तत्र॑ सन्त्वरा॒य्यः ।
तत्र॑ से॒दिर्न्युऽच्यतु॒ सर्वा॑श्च यातुधा॒न्यः
भू॒त॒प॒तिर्निर॑ज॒त्विन्द्र॑श्चे॒तः स॒दान्वाः॑ ।
गृ॒हस्य॑ बु॒ध्न आसी॑ना॒स्ता इन्द्रो॒ वज्रे॒णाधि॑ तिष्ठतु
यदि॒ स्थ क्षे॑त्रि॒याणां॒ यदि॑ वा॒ पुरु॑षेषिताः ।
यदि॒ स्थ दस्यु॑भ्यो जा॒ता नश्य॑ते॒तः स॒दान्वाः॑
परि॒ धामा॑न्यासामा॒शुर्गाष्ठा॑मिवासरन् ।
अजै॑षं॒ सर्वा॑ना॒जीन्वो॒ नश्य॑ते॒तः स॒दान्वाः॑