Kaanda 20, Sukta 136, Verse 1
खिलानि ।
यद॑स्या अंहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत् ।
मु॒ष्काविद॑स्या एज॒तो गो॑श॒फे श॑कु॒लावि॑व
Containing 17 sacred Sanskrit shlokas with multi-author commentaries and translations.
खिलानि ।
यद॑स्या अंहु॒भेद्याः॑ कृ॒धु स्थू॒लमु॒पात॑सत् ।
मु॒ष्काविद॑स्या एज॒तो गो॑श॒फे श॑कु॒लावि॑व
यदा॑ स्थू॒लेन॒ पस॑साणौ मु॒ष्का उपा॑वधीत् ।
विष्व॑ञ्चा व॒स्या वर्ध॑तः॒ सिक॑तास्वेव॒ गर्द॑भौ
यदल्पि॑का॒स्वऽल्पिका॒ कर्क॑धू॒केव॒षद्य॑ते ।
वास॑न्ति॒कमि॑व॒ तेज॑नं॒ यन्त्य॒वाता॑य॒ वित्प॑ति
यद्दे॒वासो॑ ललामगुं॒ प्रवि॑ष्टी॒मिन॑माविषुः ।
स॒कु॒ला दे॑दिश्यते॒ नारी॑ स॒त्यस्या॑क्षि॒भुवो॑ यथा
म॒हा॒न॒ग्न्यतृप्नद्वि॒ मोक्र॑द॒दस्था॑नासरन् ।
शक्ति॑का॒नना स्व॑च॒मश॑कं सक्तु॒ पद्य॑म
म॒हा॒न॒ग्न्युलूखलमति॒क्राम॑न्त्यब्रवीत् ।
यथा॒ तव॑ वनस्पते॒ निर॑घ्नन्ति॒ तथै॑वति
म॒हा॒न॒ग्न्युप॑ ब्रूते भ्र॒ष्टोथाप्य॑भूभुवः ।
यथै॒व ते॑ वनस्पते॒ पिप्प॑ति॒ तथै॑वति
म॒हा॒न॒ग्न्युप॑ ब्रूते भ्र॒ष्टोथाप्य॑भूभुवः ।
यथा॑ वयो॒ विदाह्य॑ स्व॒र्गे न॒मवद॑ह्यते
म॒हा॒न॒ग्न्युप॑ ब्रूते स्वसा॒वेशि॑तं॒ पसः॑ ।
इ॒त्थं फल॑स्य॒ वृक्ष॑स्य॒ शूर्पे॑ शूर्पं॒ भजे॑महि
म॒हा॒न॒ग्नी कृ॑कवाकं॒ शम्य॑या॒ परि॑ धावति ।
अ॒यं न वि॒द्म यो॑ मृ॒गः शी॒र्ष्णा ह॑रति॒ धाणि॑काम्
म॒हा॒न॒ग्नी म॑हान॒ग्नं धाव॑न्त॒मनु॑ धावति ।
इ॒मास्तद॑स्य॒ गा र॑क्ष॒ यभ॒ माम॑द्ध्यौद॒नम्
सुदे॑वस्त्वा म॒हान॑ग्नी॒र्बबा॑धते मह॒तः सा॑धु खो॒दन॑म् ।
कु॒सं पीव॒रो न॑वत्
व॒शा द॒ग्धामि॑माङ्गु॒रिं प्रसृ॑जतो॒ग्रतं॑ परे ।
म॒हान्वै भ॒द्रो यभ॒ माम॑द्ध्यौद॒नम्
विदे॑वस्त्वा म॒हान॑ग्नी॒र्विबा॑धते मह॑तः सा॑धु खो॒दन॑म् ।
कु॒मा॒री॒का पि॑ङ्गलि॒का कार्द॒ भस्मा॑ कु॒ धाव॑ति
म॒हान्वै भ॒द्रो बि॒ल्वो म॒हान्भ॑द्र उदु॒म्बरः॑ ।
म॒हां अ॑भि॒क्त बा॑धते मह॒तः सा॑धु खो॒दन॑म्
यः कु॑मा॒री पि॑ङ्गलि॒का वस॑न्तं पीव॒री ल॑भेत् ।
तैल॑कुण्ड॒मिमा॑ङ्गु॒ष्ठं रोद॑न्तं शुद॒मुद्ध॑रेत्
॥
इति कुन्तापसूक्तानि ॥