Atharva Veda
Kaanda 20, Sukta 133, Verse 1
खिलानि ।
वित॑तौ किरणौ॒ द्वौ तावा॑ पिनष्टि॒ पूरु॑षः ।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
खिलानि ।
वित॑तौ किरणौ॒ द्वौ तावा॑ पिनष्टि॒ पूरु॑षः ।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से
मा॒तुष्टे कि॑रणौ॒ द्वौ निवृ॑त्तः॒ पुरु॑षानृते ।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से
निगृ॑ह्य॒ कर्ण॑कौ॒ द्वौ निरा॑यच्छसि॒ मध्य॑मे ।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से
उ॒त्ता॒नायै॒ शया॒नायै॒ तिष्ठ॑न्ती॒ वाव॑ गूहसि ।
न वै॑ कमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से
श्लक्ष्णा॑यां॒ श्लक्ष्णि॑कायां॒ श्लक्ष्ण॑मे॒वाव॒ गूहसि ।
न वै॑ कुमारि॒ तत्तथा॒ यथा॑ कुमारि॒ मन्य॑से
अव॑श्लक्ष्ण॒मिव॑ भ्रंशद॒न्तर्लोममति॑ ह्र॒दे ।