Atharva Veda
Kaanda 20, Sukta 129, Verse 1
खिलानि ।
ए॒ता अश्वा॒ आ प्ल॑वन्ते
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
खिलानि ।
ए॒ता अश्वा॒ आ प्ल॑वन्ते
प्र॒ती॒पं प्राति॑ सु॒त्वन॑म्
तासा॒मेका॒ हरि॑क्निका
हरि॑क्नि॒के किमि॑च्छासि
सा॒धुं पु॒त्रं हि॑र॒ण्यय॑म्
क्वाह॑तं॒ परा॑स्यः
यत्रा॒मूस्तिस्रः॑ शिंश॒पाः
परि॑ त्रयः
पृदा॑कवः
शृङ्गं॑ ध॒मन्त॑ आसते
अ॒यन्म॒हा ते॑ अर्वा॒हः
स इच्छकं॒ सघा॑घते
सघा॑घते॒ गोमी॒द्या गोग॑ती॒रिति
पुमां॑ कु॒स्ते निमि॑च्छसि
पल्प॑ बद्ध॒ वयो॒ इति॑
बद्ध॑ वो॒ अघा॒ इति॑
अजा॑गार॒ केवि॒का
अश्व॑स्य॒ वारो॑ गोशपद्य॒के
श्येनी॒पती॑ सा
अ॒ना॒म॒योप॑जि॒ह्विका॑