Kaanda 20, Sukta 68, Verse 1
सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
जु॒हू॒मसि॒ द्यवि॑द्यवि
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
सु॒रू॒प॒कृ॒त्नुमू॒तये॑ सु॒दुघा॑मिव गो॒दुहे॑ ।
जु॒हू॒मसि॒ द्यवि॑द्यवि
उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब ।
गो॒दा इद् रे॒वतो॒ मदः॑
अथा॑ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् ।
मा नो॒ अति॑ ख्य॒ आ ग॑हि
परे॑हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं॑ पृच्छा विप॒श्चित॑म् ।
यस्ते॒ सखि॑भ्य॒ आ वर॑म्
उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत ।
दधा॑ना॒ इन्द्र॒ इद् दुवः॑
उ॒त नः॑ सु॒भगां॑ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ ।
स्यामेदिन्द्र॑स्य॒ शर्म॑णि
एमा॒शुमा॒शवे॑ भर यज्ञ॒श्रियं॑ नृ॒माद॑नम् ।
प॒त॒यन्म॑न्द॒यत्स॑खम्
अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा॑मभवः ।
प्रावो॒ वाजे॑षु वा॒जिन॑म्
तं त्वा॒ वाजे॑षु वा॒जिनं॑ वा॒जया॑मः शतक्रतो ।
धना॑नामिन्द्र सा॒तये॑
यो रा॒यो॒३ऽवनि॑र्म॒हान्त्सु॑पा॒रः सु॑न्व॒तः सखा॑ ।
तस्मा॒ इन्द्रा॑य गायत
आ त्वेता॒ नि षी॑द॒तेन्द्र॑म॒भि प्र गा॑यत ।
सखा॑य॒ स्तोम॑वाहसः
पु॒रू॒तमं॑ पुरू॒णामीशा॑नं॒ वार्या॑णाम् ।
इन्द्रं॒ सोमे॒ सचा॑ सु॒ते