Atharva Veda
Kaanda 20, Sukta 61, Verse 1
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् ।
उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म्
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
तं ते॒ मदं॑ गृणीमसि॒ वृष॑णं पृ॒त्सु सा॑स॒हिम् ।
उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय॑म्
येन॒ ज्योतीं॑ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ ।
म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि
तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा॑ ।
वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे
तम्व॒भि प्र गा॑यत पुरुहू॒तं पु॑रुष्टु॒तम् ।
इन्द्रं॑ गी॒र्भिस्त॑वि॒षमा वि॑वासत
यस्य॑ द्वि॒बर्ह॑सो बृ॒हत् सहो॑ दा॒धार॒ रोद॑सी ।
गि॒रींरज्राँ॑ अ॒पः स्वर्वृषत्व॒ना
स रा॑जसि पुरुष्टुतँ एको॑ वृ॒त्राणि॑ जिघ्नसे ।
इन्द्र॒ जैत्रा॑ श्रव॒स्यैऽ च॒ यन्त॑वे