Atharva Veda
Kaanda 20, Sukta 60, Verse 1
ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।
ए॒वा ते॒ राध्यं॒ मनः॑
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः ।
ए॒वा ते॒ राध्यं॒ मनः॑
ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे॑भिर्धायि धा॒तृभिः॑ ।
अघा॑ चिदिन्द्र मे॒ सचा॑
मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो॑ वाजानां पते ।
मत्स्वा॑ सु॒तस्य॑ गोम॑तः
ए॒वा ह्य॑स्य सू॒नृता॑ विर॒प्शी गोम॑ती म॒ही ।
प॒क्वा शाखा॒ न दा॒शुषे॑
ए॒वा हि ते॑ विभू॑तय ऊ॒तय॑ इन्द्र॒ माव॑ते ।
स॒द्यश्चि॒त् सन्ति॑ दा॒शुषे॑
ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या॑ ।
इन्द्रा॑य॒ सोम॑पीतये