Atharva Veda
Kaanda 20, Sukta 48, Verse 1
अ॒भि त्वा॒ वर्च॑सा गिरः॒ सिञ्च॑न्ती॒राच॑र॒ण्युवः॑ ।
अ॒भि व॒त्सं न धे॒नवः॑
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
अ॒भि त्वा॒ वर्च॑सा गिरः॒ सिञ्च॑न्ती॒राच॑र॒ण्युवः॑ ।
अ॒भि व॒त्सं न धे॒नवः॑
ता अ॑र्षन्ति शु॒भ्रियः॒ पृञ्च॑न्ती॒र्वर्च॑सा प्रि॒यः ।
जा॒तं जा॒त्रीर्यथा॑ हृ॒दा
वज्रा॑पव॒साध्यः॑ की॒र्तिर्म्रि॒यमा॑ण॒माव॑हन् ।
मह्य॒मायु॑र्घृ॒तं पयः॑
आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं॑ पु॒रः ।
पि॒तरं॑ च प्र॒यन्त्स्वः
अ॒न्तश्च॑रति रोच॒ना अ॒स्य प्रा॒णाद॑पान॒तः ।
व्य॑ख्यन्महि॒षः स्वः
त्रिं॒शद् धामा॒ वि रा॑जति॒ वाक् प॑त॒ङ्गो अ॑शिश्रियत् ।
प्रति॒ वस्तो॒रह॒र्द्युभिः॑