Kaanda 20, Sukta 47, Verse 1
तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत्
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत्
इन्द्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सो॒म्यः
गि॒रा वज्रो॒ न संभृ॑तः॒ सब॑लो॒ अन॑पच्युतः ।
व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः
इन्द्र॒मिद् गा॒थिनो॑ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ ।
इन्द्रं॒ वाणी॑रनूषत
इन्द्र॒ इद्धर्योः॒ सचा॒ संमि॑श्ल॒ आ व॑चो॒युजा॑ ।
इन्द्रो॑ व॒ज्री हि॑र॒ण्ययः॑
इन्द्रो॑ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं॑ रोहयद् दि॒वि ।
वि गोभि॒रद्रि॑मैरयत्
आ या॑हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा॑ इ॒मम् ।
एदं ब॒र्हिः स॑दो॒ मम॑
आ त्वा॑ ब्रह्म॒युजा॑ हरी॒ वह॑तामिन्द्र के॒शिना॑ ।
उप॒ ब्रह्मा॑णि नः शृणु
ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो॑म॒पामि॑न्द्र सो॒मिनः॑ ।
सु॒ताव॑न्तो हवामहे
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ ।
रोच॑न्ते रोच॒ना दि॒वि
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः
उदु॒ त्यं जा॒तवे॑दसं दे॒वं व॑हन्ति के॒तवः॑ ।
दृ॒शे विश्वा॑य॒ सूर्य॑म्
अप॒ त्ये ता॒यवो॑ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ ।
सूरा॑य वि॒श्वच॑क्षसे
अदृ॑श्रन्नस्य के॒तवो॒ वि र॒श्मयो॒ जनां॒ अनु॑ ।
भ्राज॑न्तो अ॒ग्नयो॑ यथा
त॒रणि॑र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य ।
विश्व॒मा भा॑सि रोचन
प्र॒त्यङ् दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे॑षि॒ मानु॑षीः ।
प्र॒त्यङ् विश्वं॒ स्वर्दृ॒शे
येना॑ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनां॒ अनु॑ ।
त्वं व॑रुण॒ पश्य॑सि
वि द्यामे॑षि॒ रज॑स्पृ॒थ्वह॒र्मिमा॑नो अ॒क्तुभिः॑ ।
पश्यं॒ जन्मा॑नि सूर्य
स॒प्त त्वा॑ ह॒रितो॒ रथे॒ वह॑न्ति देव सूर्य ।
शो॒चिष्के॑शं विचक्ष॒णम्
अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः ।
ताभि॑र्याति॒ स्वयु॑क्तिभिः