Atharva Veda
Kaanda 2, Sukta 3, Verse 1
आस्रावस्य
भेषजम् ।
अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात् ।
तत् ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
आस्रावस्य
भेषजम् ।
अ॒दो यद॑व॒धाव॑त्यव॒त्कमधि॒ पर्व॑तात् ।
तत् ते॑ कृणोमि भेष॒जं सुभे॑षजं॒ यथास॑सि
आद॒ङ्गा कु॒विद॒ङ्गा श॒तं या भे॑ष॒जानि॑ ते ।
तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम्
नी॒चैः ख॑न॒न्त्यसु॑रा अरु॒स्राण॑मि॒दं म॒हत् ।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत्
उ॒प॒जीका॒ उद् भ॑रन्ति समु॒द्रादधि॑ भेष॒जम् ।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मशीशमत्
अ॒रु॒स्राण॑मि॒दं म॒हत् पृ॑थि॒व्या अध्युद्भृ॑तम् ।
तदा॑स्रा॒वस्य॑ भेष॒जं तदु॒ रोग॑मनीनशत्
शं नो॑ भवन्त्व॒प ओष॑धयः शि॒वाः ।
इन्द्र॑स्य॒ वज्रो॒ अप॑ हन्तु र॒क्षस॑ आ॒राद् विसृ॑ष्टा॒ इष॑वः पतन्तु र॒क्षसा॑म्