Atharva Veda
Kaanda 20, Sukta 29, Verse 1
त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः ।
स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत्
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
त्वं हि स्तो॑म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः ।
स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत्
इन्द्र॒मित् के॒शिना॒ हरी॑ सोम॒पेया॑य वक्षतः ।
उप॑ य॒ज्ञं सु॒राध॑सम्
अ॒पां फेने॑न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः ।
विश्वा॒ यदज॑य॒ स्पृधः॑
मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः ।
अव॒ दस्यूं॑रधूनुथाः
अ॒सु॒न्वामि॑न्द्र सं॒सदं॒ विषू॑चीं॒ व्यनाशयः ।
सो॒म॒पा उत्त॑रो॒ भव॑न्