Atharva Veda
Kaanda 20, Sukta 27, Verse 1
यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।
स्तो॒ता मे॒ गोष॑खा स्यात्
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदि॑न्द्रा॒हं यथा॒ त्वमीशी॑य॒ वस्व॒ एक॒ इत् ।
स्तो॒ता मे॒ गोष॑खा स्यात्
शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ ।
यद॒हं गोप॑तिः॒ स्याम्
धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते ।
गामश्वं॑ पि॒प्युषी॑ दुहे
न ते॑ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑ ।
यद् दित्स॑सि स्तु॒तो म॒घम्
य॒ज्ञ इन्द्र॑मवर्धय॒द् यद् भूमिं॒ व्यव॑र्तयत् ।
च॒क्रा॒ण ओ॑प॒शं दि॒वि
वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना॑नि जि॒ग्युषः॑ ।
ऊ॒तिमि॒न्द्रा वृ॑णीमहे