Atharva Veda
Kaanda 20, Sukta 26, Verse 1
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
सखा॑य॒ इन्द्र॑मू॒तये॑
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
योगे॑योगे त॒वस्त॑रं॒ वाजे॑वाजे हवामहे ।
सखा॑य॒ इन्द्र॑मू॒तये॑
आ घा॑ गम॒द् यदि॒ श्रव॑त् सह॒स्रिणी॑भिरू॒तिभिः॑ ।
वाजे॑भि॒रुप॑ नो॒ हव॑म्
अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर॑म् ।
यं ते॒ पूर्वं॑ पि॒ता हु॒वे
यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ ।
रोच॑न्ते रोच॒ना दि॒वि
यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे॑ ।
शोणा॑ धृ॒ष्णू नृ॒वाह॑सा
के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः