Atharva Veda
Kaanda 20, Sukta 24, Verse 1
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् ।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः
Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.
उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा॑शिरम् ।
हरि॑भ्यां॒ यस्ते॑ अस्म॒युः
तमि॑न्द्र॒ मद॒मा ग॑हि बर्हि॒ष्ठां ग्राव॑भिः सु॒तम् ।
क॒विन्न्वऽस्य तृ॒प्णवः॑
इन्द्रमि॒त्था गिरो॒ ममाच्छा॑गुरिषि॒ता इ॒तः ।
आ॒वृते॒ सोम॑पीतये
इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै॑रि॒ह ह॑वामहे ।
उ॒क्थेभिः॑ कु॒विदा॒गम॑त्
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तान् द॑धिष्व शतक्रतो ।
ज॒ठरे॑ वाजिनीवसो
वि॒द्मा हि त्वा॑ धनंज॒यं वाजे॑षु दधृ॒षं क॑वे ।
अधा॑ ते सु॒म्नमी॑महे
इ॒ममि॑न्द्र॒ गवा॑शिरं॒ यवा॑शिरं च नः पिब ।
आ॒गत्या॒ वृष॑भिः सु॒तम्
तुभ्येदि॑न्द्र॒ स्व ओ॒क्ये॒३ सोमं॑ चोदामि पी॒तये॑ ।
ए॒ष रा॑रन्तु ते हृ॒दि
त्वां सु॒तस्य॑ पी॒तये॑ प्र॒त्नमि॑न्द्र हवामहे ।
कु॒शि॒कासो॑ अव॒स्यवः॑