Atharva Veda
Kaanda 20, Sukta 19, Verse 1
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च ।
इन्द्र॒ त्वा व॑र्तयामसि
Containing 7 sacred Sanskrit shlokas with multi-author commentaries and translations.
वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या॑य च ।
इन्द्र॒ त्वा व॑र्तयामसि
अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो ।
इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑
नामा॑नि ते शतक्रतो॒ विश्वा॑भिर्गी॒र्भिरी॑महे ।
इन्द्रा॑भिमाति॒षाह्ये॑
पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि ।
इन्द्र॑स्य चर्षणी॒धृतः॑
इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे ।
भरे॑षु॒ वाज॑सातये
वाजे॑षु सास॒हिर्भ॑व॒ त्वामी॑महे शतक्रतो ।
इन्द्र॑ वृ॒त्राय॒ हन्त॑वे
द्यु॒म्नेषु॑ पृत॒नाज्ये॑ पृ॒त्सु॒तूर्षु॒ श्रवः॑सु च ।
इन्द्र॒ साक्ष्वा॒भिमा॑तिषु