Atharva Veda
Kaanda 20, Sukta 18, Verse 1
व॒यमु॑ त्वा त॒दित॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः ।
कण्वा॑ उ॒क्थेभि॑र्जरन्ते
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
व॒यमु॑ त्वा त॒दित॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा॑यः ।
कण्वा॑ उ॒क्थेभि॑र्जरन्ते
न घे॑म॒न्यदा प॑पन॒ वज्रि॑न्न॒पसो॒ नवि॑ष्टौ ।
तवेदु॒ स्तोमं॑ चिकेत
इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना॑य स्पृहयन्ति ।
यन्ति॑ प्र॒माद॒मत॑न्द्राः
व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन् ।
वि॒द्धि त्व॑१स्य नो॑ वसो
मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे ।
त्वे अपि॒ क्रतु॒र्मम॑
त्वं वर्मा॑सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन् ।
त्वया॒ प्रति॑ ब्रुवे यु॒जा