Atharva Veda
Kaanda 20, Sukta 7, Verse 1
उद् घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् ।
अस्ता॑रमेषि सूर्य
Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.
उद् घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् ।
अस्ता॑रमेषि सूर्य
नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वोजसा ।
अहिं॑ च वृत्र॒हाव॑धीत्
सन॒ इन्द्रः॑ शि॒वः सखाश्वा॑व॒द् गोम॒द् यव॑मत् ।
उ॒रुधा॑रेव दोहते
इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत ।
पिबा वृ॑षस्व॒ तातृ॑पिम्