Atharva Veda
Kaanda 20, Sukta 6, Verse 1
इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे ।
स पा॑हि मध्वो॒ अन्ध॑सः
Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.
इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे॑ हवामहे ।
स पा॑हि मध्वो॒ अन्ध॑सः
इन्द्र॑ क्रतु॒विदं॑ सु॒तं सोमं॑ हर्य पुरुष्टुत ।
पिबा वृ॑षस्व॒ तातृ॑पिम्
इन्द्र॒ प्र णो॑ धि॒तावा॑नं य॒ज्ञं विश्वे॑भिर्दे॒वेभिः॑ ।
ति॒र स्त॑वान विश्पते
इन्द्र॒ सोमाः॑ सु॒ता इ॒मे तव॒ प्र य॑न्ति सत्पते ।
क्षयं॑ च॒न्द्रास॒ इन्द॑वः
द॒धि॒ष्वा ज॒ठरे॑ सु॒तं सोम॑मिन्द्र॒ वरे॑ण्यम् ।
तव॑ द्यु॒क्षास॒ इन्द॑वः
गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा॑भिरज्यसे ।
इन्द्र॒ त्वादा॑त॒मिद् यशः॑
अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं॑ सचन्ते॒ अक्षि॑ता ।
पी॒त्वी सोम॑स्य वावृधे
अ॒र्वा॒वतो॑ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् ।
इ॒मा जु॑षस्व नो॒ गिरः॑
यद॑न्त॒रा प॑रा॒वत॑मर्वा॒वतं॑ च हू॒यसे॑ ।
इन्द्रे॒ह तत॒ आ ग॑हि