Atharva Veda
Kaanda 19, Sukta 64, Verse 1
दीर्घायुत्वम् ।
अग्ने॑ स॒मिध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे ।
स मे॑ श्र॒द्धां च॑ मे॒धां च॑ जा॒तवे॑दाः॒ प्र य॑च्छतु
Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.
दीर्घायुत्वम् ।
अग्ने॑ स॒मिध॒माहा॑र्षं बृह॒ते जा॒तवे॑दसे ।
स मे॑ श्र॒द्धां च॑ मे॒धां च॑ जा॒तवे॑दाः॒ प्र य॑च्छतु
इ॒ध्मेन॑ त्वा जातवेदः स॒मिधा॑ वर्धयामसि ।
तथा॒ त्वम॒स्मान् व॑र्धय प्र॒जया॑ च॒ धने॑न च
यद॑ग्ने॒ यानि॒ कानि॑ चि॒दा ते॒ दारू॑णि द॒ध्मसि॑ ।
सर्वं॒ तद॑स्तु मे शि॒वं तज्जु॑षस्व यविष्ठ्य
ए॒तास्ते॑ अग्ने स॒मिध॒स्त्वमि॒द्धः स॒मिद् भव ।
आयु॑र॒स्मासु॑ धेह्यमृत॒त्वमा॑चा॒र्याय