Atharva Veda
Kaanda 19, Sukta 54, Verse 1
कालः ।
का॒लादापः॒ सम॑भवन् का॒लाद् ब्रह्म॒ तपो॒ दिशः॑ ।
का॒लेनोदे॑ति॒ सूर्यः॑ का॒ले नि वि॑शते॒ पुनः॑
Containing 5 sacred Sanskrit shlokas with multi-author commentaries and translations.
कालः ।
का॒लादापः॒ सम॑भवन् का॒लाद् ब्रह्म॒ तपो॒ दिशः॑ ।
का॒लेनोदे॑ति॒ सूर्यः॑ का॒ले नि वि॑शते॒ पुनः॑
का॒लेन॒ वातः॑ पवते का॒लेन॑ पृथि॒वी म॒ही ।
द्यौर्म॒ही का॒ल आहि॑ता
का॒लो ह॑ भू॒तं भव्यं॑ च पु॒त्रो अ॑जनयत् पु॒रा ।
का॒लादृचः॒ सम॑भव॒न् यजुः॑ का॒लाद॑जायत
का॒लो य॒ज्ञं समै॑रयद् दे॒वेभ्यो॑ भा॒गमक्षि॑तम् ।
का॒ले ग॑न्धर्वाप्स॒रसः॑ का॒ले लो॒काः प्रति॑ष्ठिताः
का॒लेऽयमङ्गि॑रा दे॒वोऽथ॑र्वा॒ चाधि॑ तिष्ठतः ।
इ॒मं च॑ लो॒कं प॑र॒मं च॑ लो॒कं पुण्यां॑श्च लो॒कान् विधृ॑तीश्च॒ पुण्याः॑ ।
सर्वां॑ल्लो॒कान॑भि॒जित्य॒ ब्रह्म॑णा का॒लः स ई॑यते पर॒मो नु दे॒वः