Atharva Veda
Kaanda 19, Sukta 48, Verse 1
रात्रिः ।
अथो॒ यानि॑ च॒ यस्मा॑ ह॒ यानि॑ चा॒न्तः प॑री॒णहि॑ ।
तानि॑ ते॒ परि॑ दद्मसि
Containing 6 sacred Sanskrit shlokas with multi-author commentaries and translations.
रात्रिः ।
अथो॒ यानि॑ च॒ यस्मा॑ ह॒ यानि॑ चा॒न्तः प॑री॒णहि॑ ।
तानि॑ ते॒ परि॑ दद्मसि
रात्रि॒ मात॑रु॒षसे॑ नः॒ परि॑ देहि ।
उ॒षा नो॒ अह्ने॒ परि॑ ददा॒त्वह॒स्तुभ्यं॑ विभावरि
यत् किं चे॒दं प॒तय॑ति यत् किं चे॒दं स॑रीसृ॒पम् ।
यत् किं च॒ पर्व॑ताया॒सत्वं॒ तस्मा॒त् त्वं रा॑त्रि पाहि नः
सा प॒श्चात् पा॑हि॒ सा पु॒रः सोत्त॒राद॑ध॒रादु॒त ।
गो॒पाय॑ नो विभावरि स्तो॒तार॑स्त इ॒ह स्म॑सि
ये रात्रि॑मनु॒तिष्ठ॑न्ति॒ ये च॑ भू॒तेषु॒ जाग्र॑ति ।
प॒शून् ये सर्वा॒न् रक्ष॑न्ति॒ ते न॑ आ॒त्मसु॑ जाग्रति॒ ते नः॑ प॒शुषु॑ जाग्रति
वेद॒ वै रा॑त्रि ते॒ नाम॑ घृ॒ताची॒ नाम॒ वा अ॑सि ।
तां त्वां भ॒रद्वा॑जो वेद॒ सा नो॑ वि॒त्तेऽधि॑ जाग्रति