Kaanda 19, Sukta 19, Verse 1
शर्म ।
मि॒त्रः पृ॑थि॒व्योद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.
शर्म ।
मि॒त्रः पृ॑थि॒व्योद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
वा॒युर॒न्तरि॑क्षे॒णोद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
सूर्यो॑ दि॒वोद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
च॒न्द्रमा॒ नक्ष॑त्रै॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
सोम॒ ओष॑धीभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
य॒ज्ञो दक्षि॑णाभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
स॒मु॒द्रो न॒दीभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
ब्रह्म॑ ब्रह्मचा॒रिभि॒रुद॑क्राम॒त् पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
इन्द्रो॑ वी॒र्ये॒३णोद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
दे॒वा अ॒मृते॒नोद॑क्रामं॒स्तां पुरं॒ प्र ण॑यामि वः ।
तामा वि॑शत॒ तां प्र वि॑शत॒ सा वः॒ शर्म॑ च॒ वर्म॑ च यच्छतु
प्र॒जाप॑तिः प्र॒जाभि॒रुद॑क्राम॒त् तां पुरं॒ प्र ण॑यामि वः ।