Kaanda 19, Sukta 18, Verse 1
सुरक्षा ।
अ॒ग्निं ते वसु॑वन्तमृच्छन्तु ।
ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शोऽभि॒दासा॑त्
Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.
सुरक्षा ।
अ॒ग्निं ते वसु॑वन्तमृच्छन्तु ।
ये मा॑घा॒यवः॒ प्राच्या॑ दि॒शोऽभि॒दासा॑त्
वा॒युं ते॒३ऽन्तरि॑क्षवन्तमृछन्तु ।
ये मा॑घा॒यवः॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्
सोमं॒ ते रु॒द्रव॑न्तमृछन्तु ।
ये मा॑घा॒यवो॒ दक्षि॑णाया दि॒शोऽभि॒दासा॑त्
वरु॑णं॒ त आ॑दि॒त्यव॑न्तमृच्छन्तु ।
ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्
सूर्यं॒ ते द्यावा॑पृथि॒वीव॑न्तमृच्छन्तु ।
ये मा॑घा॒यव॑ प्र॒तीच्याः॑ दि॒शोऽभि॒दासा॑त्
अ॒पस्त ओष॑धीमतीरृछन्तु ।
ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्
वि॒श्वक॑र्माणं॒ ते स॑प्तऋ॒षिव॑न्तमृच्छन्तु ।
ये मा॑घा॒यव॒ उदी॑च्या दि॒शोऽभि॒दासा॑त्
इन्द्रं॒ ते म॒रुत्व॑न्तमृच्छन्तु ।
ये मा॑घा॒यव॑ ए॒तस्या॑ दि॒शोऽभि॒दासा॑त्
प्र॒जाप॑तिं॒ ते प्र॒जन॑नवन्तमृच्छन्तु ।
ये मा॑घा॒यवो॑ ध्रु॒वाया॑ दि॒शोऽभि॒दासा॑त्
बृह॒स्पतिं॒ ते वि॒श्वदे॑ववन्तमृच्छन्तु ।
ये मा॑घा॒यव॑ ऊ॒र्ध्वाया॑ दि॒शोऽभि॒दासा॑त्