Kaanda 18, Sukta 4, Verse 1
पितृमेधः ।
आ रो॑हत॒ जनि॑त्रीं जा॒तवे॑दसः पितृ॒याणैः सं व॒ आ रो॑हयामि ।
अवा॑ड्ढ॒व्येषि॒तो ह॑व्य॒वाह ईजा॒नं यु॒क्ताः सु॒कृतां॑ धत्त लो॒के
Containing 89 sacred Sanskrit shlokas with multi-author commentaries and translations.
पितृमेधः ।
आ रो॑हत॒ जनि॑त्रीं जा॒तवे॑दसः पितृ॒याणैः सं व॒ आ रो॑हयामि ।
अवा॑ड्ढ॒व्येषि॒तो ह॑व्य॒वाह ईजा॒नं यु॒क्ताः सु॒कृतां॑ धत्त लो॒के
दे॒वा य॒ज्ञमृ॒तवः॑ कल्पयन्ति ह॒विः पु॑रो॒डाशं॑ स्रु॒चो य॑ज्ञायु॒धानि॑ ।
तेभि॑र्याहि प॒थिभि॑र्देव॒यानै॒र्यैरी॑जा॒नाः स्व॒र्गं यन्ति॑ लो॒कम्
ऋ॒तस्य॒ पन्था॒मनु॑ पश्य सा॒ध्वङ्गि॑रसः सु॒कृतो॑ येन॒ यन्ति॑ ।
तेभि॑र्याहि प॒थिभिः॑ स्व॒र्गं यत्रा॑दि॒त्या मधु॑ भ॒क्षय॑न्ति तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व
त्रयः॑ सुप॒र्णा उप॑रस्य मा॒यू नाक॑स्य पृ॒ष्ठे अधि॑ वि॒ष्टपि॑ श्रि॒ताः ।
स्व॒र्गा लो॒का अ॒मृते॑न वि॒ष्ठा इष॒मूर्जं॒ यज॑मानाय दुह्राम्
जु॒हूर्दा॑धार॒ द्यामु॑प॒भृद॒न्तरि॑क्षं ध्रु॒वा दा॑धार पृथि॒वीं प्र॑ति॒ष्ठाम् ।
प्रती॒मां लो॒का घृ॒तपृ॑ष्ठाः स्व॒र्गाः कामं॑कामं॒ यज॑मानाय दुह्राम्
ध्रुव॒ आ रो॑ह पृथि॒वीं वि॒श्वभो॑जसम॒न्तरि॑क्षमुपभृदा क्र॑मस्व ।
जुहु॒ द्यां ग॑च्छ॒ यज॑मानेन सा॒कं स्रु॒वेण॑ व॒त्सेन॒ दिशः॒ प्रपी॑नाः॒ सर्वा॑ धु॒क्ष्वाहृ॑ण्यमानः
ती॒र्थैस्त॑रन्ति प्र॒वतो॑ म॒हीरिति॑ यज्ञ॒कृतः॑ सु॒कृतो॒ येन॒ यन्ति॑ ।
अत्रा॑दधु॒र्यज॑मानाय लो॒कं दिशो॑ भू॒तानि॒ यदक॑ल्पयन्त
अङ्गि॑रसा॒मय॑नं॒ पूर्वो॑ अ॒ग्निरा॑दि॒त्याना॒मय॑नं॒ गार्ह॑पत्यो॒ दक्षि॑णाना॒मय॑नं दक्षिणा॒ग्निः ।
म॒हि॒मान॑म॒ग्नेर्विहि॑तस्य॒ ब्रह्म॑णा॒ सम॑ङ्गः॒ सर्व॒ उप॑ याहि श॒ग्मः
पूर्वो॑ अ॒ग्निष्ट्वा॑ तपतु॒ शं पु॒रस्ता॒च्छं प॒श्चात् त॑पतु॒ गार्ह॑पत्यः ।
द॒क्षि॒णा॒ग्निष्टे॑ तपतु॒ शर्म॒ वर्मो॑त्तर॒तो म॑ध्य॒तो अ॒न्तरि॑क्षाद् दि॒शोदि॑शो अग्ने॒ परि॑ पाहि घो॒रात्
यू॒यम॑ग्ने॒ शंत॑माभिस्त॒नूभि॑रीजा॒नम॒भि लो॒कं स्व॒र्गम् ।
अश्वा॑ भू॒त्वा पृ॑ष्टि॒वाहो॑ वहाथ॒ यत्र॑ दे॒वैः स॑ध॒मादं॒ मद॑न्ति
शम॑ग्ने प॒श्चात् त॑प॒ शं पु॒रस्ता॒च्छमु॑त्त॒राच्छम॑ध॒रात् त॑पैनम् ।
एक॑स्त्रे॒धा विहि॑तो जातवेदः स॒म्यगे॑नं धेहि सु॒कृता॑मु लो॒के
शम॒ग्नयः॒ समि॑द्धा॒ आ र॑भन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः ।
शृ॒तं कृ॒ण्वन्त॑ इ॒ह माव॑ चिक्षिपन्
य॒ज्ञ ए॑ति॒ वित॑तः॒ कल्प॑मान ईजा॒नम॒भि लो॒कं स्व॒र्गम् ।
तम॒ग्नयः॒ सर्व॑हुतं जुषन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः
ई॒जा॒नश्चि॒तमारु॑क्षद॒ग्निं नाक॑स्य पृ॒ष्ठाद् दिव॑मुत् पति॒ष्यन् ।
तस्मै॒ प्र भा॑ति॒ नभ॑सो॒ ज्योति॑षीमान्त्स्व॒र्गः पन्थाः॑ सु॒कृते॑ देव॒यानः॑
अ॒ग्निर्होता॑ध्व॒र्युष्टे॒ बह॒स्पति॒रिन्द्रो॑ ब्र॒ह्मा द॑क्षिण॒तस्ते॑ अस्तु ।
हु॒तोऽयं संस्थि॑तो य॒ज्ञ ए॑ति॒ यत्र॒ पूर्व॒मय॑नं हु॒ताना॑म्
अ॒पू॒पवा॑न् क्षी॒रवां॑श्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
अ॒पू॒पवा॒न् दधि॑वांश्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
अ॒पू॒पवा॑न् द्र॒प्सवां॑श्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
अ॒पू॒पवा॑न् घृ॒तवां॑श्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
अ॒पू॒पवा॑न् मां॒सवां॑श्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
अ॒पू॒पवा॒नन्न॑वांश्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
अ॒पू॒पवा॒न् मधु॑मांश्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
अ॒पू॒पवा॒न् रस॑वांश्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
अ॒पू॒पवा॒नप॑वांश्च॒रुरेह सी॑दतु ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
अ॒पू॒पापि॑हितान् कु॒म्भान् यांस्ते॑ दे॒वा अधा॑रयन् ।
ते ते॑ सन्तु स्व॒धाव॑न्तो॒ मधु॑मन्तो घृत॒श्चुतः॑
यास्ते॑ धा॒ना अ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः ।
तास्ते॑ सन्तू॒द्भ्वीः प्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम्
अक्षि॑तिं॒ भूय॑सीम्
द्र॒प्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ ।
स॒मा॒नं योनि॒मनु॑ सं॒चर॑न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः॑
श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते र॒यिम् ।
ये पृ॒णन्ति॒ प्र च॒ यच्छ॑न्ति सर्व॒दा ते दु॑ह्रते॒ दक्षि॑णां स॒प्तमा॑तरम्
कोशं॑ दुहन्ति क॒लशं॒ चतु॑र्बिल॒मिडां॑ धे॒नुं मधु॑मतीं स्व॒स्तये॑ ।
ऊर्जं॒ मद॑न्ती॒मदि॑तिं॒ जने॒ष्वग्ने॒ मा हिं॑सीः पर॒मे व्योऽमन्