Kaanda 18, Sukta 3, Verse 1
पितृमेधः ।
इ॒यं नारी॑ पतिलो॒कं वृ॑णा॒ना नि प॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म् ।
धर्मं॑ पुरा॒णम॑नुपा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह धे॑हि
Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.
पितृमेधः ।
इ॒यं नारी॑ पतिलो॒कं वृ॑णा॒ना नि प॑द्यत॒ उप॑ त्वा मर्त्य॒ प्रेत॑म् ।
धर्मं॑ पुरा॒णम॑नुपा॒लय॑न्ती॒ तस्यै॑ प्र॒जां द्रवि॑णं चे॒ह धे॑हि
उदी॑र्ष्व नार्य॒भि जी॑वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ ।
ह॒स्त॒ग्रा॒भस्य॑ दधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ
अप॑श्यं युव॒तिं नी॒यमा॑नां जी॒वां मृ॒तेभ्यः॑ परिणी॒यमा॑नाम् ।
अ॒न्धेन॒ यत् तम॑सा॒ प्रावृ॒तासी॑त् प्रा॒क्तो अपा॑चीमनयं॒ तदे॑नाम्
प्र॒जा॒न॒त्यऽघ्न्ये जीवलो॒कं दे॒वानां॒ पन्था॑मनुसं॒चर॑न्ती ।
अ॒यं ते॒ गोप॑ति॒स्तं जु॑षस्व स्व॒र्गं लो॒कमधि॑ रोहयैनम्
उप॒ द्यामुप॑ वेत॒समव॑त्तरो न॒दीना॑म् ।
अग्ने॑ पि॒त्तम॒पाम॑सि
यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा॑पया॒ पुनः॑ ।
क्याम्बू॒रत्र॑ रोहतु शाण्डदू॒र्वा व्य॒ऽल्कशा
इ॒दं त॒ एकं॑ प॒र ऊ॑ त॒ एकं॑ तृ॒तीये॑न॒ ज्योति॑षा॒ सं वि॑शस्व ।
सं॒वेश॑ने त॒न्वा॒३ चारु॑रेधि प्रि॒यो दे॒वानां॑ पर॒मे स॒धस्थे॑
उत् ति॑ष्ठ॒ प्रेहि॒ प्र द्र॒वौकः॑ कृणुष्व सलि॒ले स॒धस्थे॑ ।
तत्र॒ त्वं पि॒तृभिः॑ संविदा॒नः सं सोमे॑न॒ मद॑स्व॒ सं स्व॒धाभिः॑
प्र च्य॑वस्व त॒न्वं॑१ सं भ॑रस्व॒ मा ते॒ गात्रा॒ वि हा॑यि॒ मो शरी॑रम् ।
मनो॒ निवि॑ष्टमनु॒संवि॑शस्व॒ यत्र॒ भूमे॑र्जु॒षसे॒ तत्र॑ गच्छ
वर्च॑सा॒ मां पि॒तरः॑ सो॒म्यासो॒ अञ्ज॑न्तु दे॒वा मधु॑ना घृ॒तेन॑ ।
चक्षु॑षे मा प्रत॒रं ता॒रय॑न्तो ज॒रसे॑ मा ज॒रद॑ष्टिं वर्धन्तु
वर्च॑सा॒ मां सम॑नक्त्व॒ग्निर्मे॒धां मे॒ विष्णु॒र्न्यऽनक्त्वा॒सन् ।
र॒यिं मे॒ विश्वे॒ नि य॑च्छन्तु दे॒वाः स्यो॒ना मापः॒ पव॑नैः पुनन्तु
मि॒त्रावरु॑णा॒ परि॒ माम॑धातामादि॒त्या मा॒ स्वर॑वो वर्धयन्तु ।
वर्चो॑ म इन्द्रो॑ न्यनक्तु॒ हस्त॑योर्ज॒रद॑ष्टिं मा सवि॒ता कृ॑णोतु
यो म॒मार॑ प्रथ॒मो मर्त्या॑नां॒ यः प्रे॒याय॑ प्रथ॒मो लो॒कमे॒तम् ।
वै॒व॒स्व॒तं सं॒गम॑नं॒ जना॑नां य॒मं राजा॑नं ह॒विषा॑ सपर्यत
परा॑ यात पितर॒ आ च॑ याता॒यं वो॑ य॒ज्ञो मधु॑ना॒ सम॑क्तः ।
द॒त्तो अ॒स्मभ्यं॒ द्रवि॑णे॒ह भ॒द्रं र॒यिं च॑ नः॒ सर्व॑वीरं दधात
कण्वः॑ क॒क्षीवा॑न् पुरुमी॒ढो अ॒गस्त्यः॑ श्या॒वाश्वः॒ सोभ॑र्यर्च॒नानाः॑ ।
वि॒श्वामि॑त्रो॒ऽयं ज॒मद॑ग्नि॒रत्रि॒रव॑न्तु नः क॒श्यपो॑ वा॒मदे॑वः
विश्वा॑मित्र॒ जम॑दग्ने॒ वसि॑ष्ठ॒ भर॑द्वाज॒ गोत॑म॒ वाम॑देव ।
श॒र्दिर्नो॒ अत्रि॑रग्रभी॒न्नमो॑भिः॒ सुसं॑शासः॒ पित॑रो मृ॒डता॑ नः
क॒स्ये मृ॒जाना॒ अति॑ यन्ति रि॒प्रमायु॒र्दधा॑नाः प्रत॒रं नवी॑यः ।
आ॒प्याय॑मानाः प्र॒जया॑ धने॒नाध॑ स्याम सुर॒भयो॑ गृ॒हेषु॑
अ॒ञ्जते॒ व्यऽञ्जते॒ सम॑ञ्जते॒ क्रतुं॑ रिहन्ति॒ मधु॑ना॒भ्यऽञ्जते ।
सिन्धो॑रुच्छ्वा॒से प॒तय॑न्तमु॒क्षणं॑ हिरण्यपा॒वाः प॒शुमा॑सु गृह्णते
यद् वो॑ मु॒द्रं पि॑तरः सो॒म्यं च॒ तेनो॑ सचध्वं॒ स्वय॑शसो॒ हि भू॒त ।
ते अ॑र्वाणः कवय॒ आ शृ॑णोत सुविद॒त्रा वि॒दथे॑ हू॒यमा॑नाः
ये अत्र॑यो॒ अङ्गि॑रसो॒ नव॑ग्वा इ॒ष्टाव॑न्तो राति॒षाचो॒ दधा॑नाः ।
दक्षि॑णावन्तः सु॒कृतो॒ य उ॒ स्थासद्या॒स्मिन् ब॒र्हिषि॑ मादयध्वम्
अधा॒ यथा॑ नः पि॒तरः॒ परा॑सः प्र॒त्नासो॑ अग्न ऋ॒तमा॑शशा॒नाः ।
शुचीद॑य॒न् दीध्य॑त उक्थ॒शासः॒ क्षामा॑ भि॒न्दन्तो॑ अरु॒णीरप॑ व्रन्
सु॒कर्मा॑नः सु॒रुचो॑ देव॒यन्तो॒ अयो॒ न दे॒वा जनि॑मा॒ धम॑न्तः ।
शु॒चन्तो॑ अ॒ग्निं वा॑वृ॒धन्त॒ इन्द्र॑मु॒र्वीं गव्यां॑ परि॒षदं॑ नो अक्रन्
आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद् दे॒वानां॒ जनि॒मान्त्यु॒ग्रः ।
मर्ता॑सश्चिदु॒र्वशी॑रकृप्रन् वृ॒धे चि॑द॒र्य उप॑रस्या॒योः
अक॑र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो॑ विभा॒तीः ।
विश्वं॒ तद् भ॒द्रं यदव॑न्ति दे॒वा बृ॒हद् व॑देम वि॒दथे॑ सु॒वीराः॑
इन्द्रो॑ मा म॒रुत्वा॒न् प्राच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
धा॒ता मा॒ निरृ॑त्या॒ दक्षि॑णाया दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
अदि॑तिर्मादि॒त्यैः प्र॒तीच्या॑ दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
सोमो॑ मा॒ विश्वै॑र्दे॒वैरुदी॑च्या दि॒शः पा॑तु बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
ध॒र्ता ह॑ त्वा ध॒रुणो॑ धारयाता ऊ॒र्ध्वं भा॒नुं स॑वि॒ता द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ
प्राच्यां॑ त्वा दि॒शि पु॒रा सं॒वृतः॑ स्व॒धाया॒मा द॑धामि बाहु॒च्युता॑ पृथि॒वी द्यामि॑वो॒परि॑ ।
लो॒क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ ये दे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ