Kaanda 18, Sukta 2, Verse 1
पितृमेधः ।
य॒माय॒ सोमः॑ पवते य॒माय॑ क्रियते ह॒विः ।
य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
पितृमेधः ।
य॒माय॒ सोमः॑ पवते य॒माय॑ क्रियते ह॒विः ।
य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू॑तो॒ अरं॑कृतः
य॒माय॒ मधु॑मत्तमं जु॒होता॒ प्र च॑ तिष्ठत ।
इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे॑भ्यः पथि॒कृद्भ्यः॑
य॒माय॑ घृ॒तव॒त् पयो॒ राज्ञे॑ ह॒विर्जु॑होतन ।
स नो॑ जी॒वेष्वा य॑मेद् दी॒र्घमायुः॒ प्र जी॒वसे॑
मैन॑मग्ने॒ वि द॑हो॒ माभि शू॑शुचो॒ मास्य॒ त्वचं॑ चिक्षिपो॒ मा शरी॑रम् ।
शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे॑मेनं॒ प्र हि॑णुतात् पि॒तॄँरुप॑
य॒दा शृ॒तं कृ॒णवो॑ जातवे॒दोऽथे॒ममे॑नं॒ परि॑ दत्तात् पि॒तृभ्यः॑ ।
य॒दो गच्छा॒त्यसु॑नीतिमे॒तामथ॑ दे॒वानां॑ वश॒नीर्भ॑वाति
त्रिक॑द्रुकेभिः पवते॒ षडु॒र्वीरेक॒मिद् बृ॒हत् ।
त्रि॒ष्टुब् गा॑य॒त्री छन्दां॑सि॒ सर्वा॒ ता य॒म आर्पि॑ता
सूर्यं॒ चक्षु॑षा गच्छ॒ वात॑मा॒त्मना॒ दिवं॑ च॒ गच्छ॑ पृथि॒वीं च॒ धर्म॑भिः ।
अ॒पो वा॑ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी॑रैः
अ॒जो भा॒गस्तप॑स॒स्तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः ।
यास्ते॑ शि॒वास्त॒न्वोऽ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम्
यास्ते॑ शो॒चयो॒ रंह॑यो जातवेदो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम् ।
अ॒जं यन्त॒मनु॒ ताः समृ॑ण्वता॒मथेत॑राभिः शि॒वत॑माभिः शृ॒तं कृ॑धि
अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धावा॑न् ।
आयु॒र्वसा॑न॒ उप॑ यातु॒ शेषः॒ सं ग॑च्छतां त॒न्वा सु॒वर्चाः॑
अति॑ द्रव॒ श्वानौ॑ सारमे॒यौ च॑तुर॒क्षौ श॒बलौ॑ सा॒धुना॑ प॒था ।
अधा॑ पि॒तॄन्त्सु॑वि॒दत्रां॒ अपी॑हि य॒मेन॒ ये स॑ध॒मादं॒ मद॑न्ति
यौ ते॒ श्वानौ॑ यम रक्षि॒तारौ॑ चतुर॒क्षौ प॑थि॒षदी॑ नृ॒चक्ष॑सा ।
ताभ्यां॑ राज॒न् परि॑ धेह्येनं स्व॒स्त्यऽस्मा अनमी॒वं च॑ धेहि
उ॒रू॒ण॒साव॑सु॒तृपा॑वुदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनां॒ अनु॑ ।
ताव॒स्मभ्यं॑ दृ॒शये॒ सूर्या॑य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम्
सोम॒ एके॑भ्यः पवते घृ॒तमेक॒ उपा॑सते ।
येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ तां॑श्चिदे॒वापि॑ गच्छतात्
ये चि॒त् पूर्व॑ ऋ॒तसा॑ता ऋ॒तजा॑ता ऋता॒वृधः॑ ।
ऋषी॒न् तप॑स्वतो यम तपो॒जां अपि॑ गच्छतात्
तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्वऽर्य॒युः ।
तपो॒ ये च॑क्रि॒रे मह॒स्तांश्चि॑दे॒वापि॑ गच्छतात्
ये युध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यजः॑ ।
ये वा॑ स॒हस्र॑दक्षिणा॒स्तांश्चिदे॒वापि॑ गच्छतात्
स॒हस्र॑णीथाः क॒वयो॒ ये गो॑पा॒यन्ति॒ सूर्य॑म् ।
ऋषी॒न् तप॑स्वतो यम तपो॒जां अपि॑ गच्छतात्
स्यो॒नास्मै॑ भव पृथिव्यनृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑स्मै॒ शर्म॑ स॒प्रथाः॑
अ॒सं॒बा॒धे पृ॑थि॒व्या उ॒रौ लो॒के नि धी॑यस्व ।
स्व॒धा याश्च॑कृ॒षे जीव॒न् तास्ते॑ सन्तु मधु॒श्चुतः॑
ह्वया॑मि ते॒ मन॑सा॒ मन॑ इ॒हेमान् गृ॒हाँ उप॑ जुजुषा॒ण एहि॑ ।
सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेन॑ स्यो॒नास्त्वा॒ वाता॒ उप॑ वान्तु श॒ग्माः
उत् त्वा॑ वहन्तु म॒रुत॑ उदवा॒हा उ॑द॒प्रुतः॑ ।
अ॒जेन॑ कृ॒ण्वन्तः॑ शी॒तं व॒र्षेणो॑क्षन्तु॒ बालिति॑
उद॑ह्व॒मायु॒रायु॑षे॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑ ।
स्वान् ग॑च्छतु ते॒ मनो॒ अधा॑ पि॒तॄंरुप॑ द्रव
मा ते॒ मनो॒ मासो॒र्माङ्गा॑नां॒ मा रस॑स्य ते ।
मा ते॑ हास्त त॒न्वः॑१ किं च॒नेह
मा त्वा॑ वृ॒क्षः सं बा॑धिष्ट॒ मा दे॒वी पृ॑थि॒वी म॒ही ।
लो॒कं पि॒तृषु॑ वि॒त्त्वैध॑स्व य॒मरा॑जसु
यत् ते॒ अङ्ग॒मति॑हितं परा॒चैर॑पा॒नः प्रा॒णो य उ॑ वा ते॒ परे॑तः ।
तत् ते सं॒गत्य॑ पि॒तरः॒ सनी॑डा घा॒साद् घा॒सं पुन॒रा वे॑शयन्तु
अपे॒मं जी॒वा अ॑रुधन् गृ॒हेभ्य॒स्तं निर्व॑हत॒ परि॒ ग्रामा॑दि॒तः ।
मृ॒त्युर्य॒मस्या॑सीद् दू॒तः प्रचे॑ता॒ असू॑न् पि॒तृभ्यो॑ गम॒यां च॑कार
ये दस्य॑वः पि॒तृषु॑ प्रवि॑ष्टा ज्ञातिमु॒खा अ॑हु॒ताद॒श्चर॑न्ति ।
प॒रा॒पुरो॑ नि॒पुरो॒ ये भर॑न्त्य॒ग्निष्टान॒स्मात् प्र ध॑माति य॒ज्ञात्
सं वि॑शन्त्वि॒ह पि॒तरः॒ स्वा नः॑ स्यो॒नं कृ॒ण्वन्तः॑ प्रति॒रन्त॒ आयुः॑ ।
तेभ्यः॑ शकेम ह॒विषा॒ नक्ष॑माणा॒ ज्योग् जीव॑न्तः श॒रदः॑ पुरू॒चीः
यां ते॑ धे॒नुं नि॑पृ॒णामि॒ यमु॑ ते क्षी॒र ओ॑द॒नम् ।
तेना॒ जन॑स्यासो भ॒र्ता योऽत्रास॒दजी॑वनः