Atharva Veda
Kaanda 16, Sukta 6, Verse 1
अजै॑ष्मा॒द्यास॑नामा॒द्याभू॒माना॑गसो व॒यम्
Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.
अजै॑ष्मा॒द्यास॑नामा॒द्याभू॒माना॑गसो व॒यम्
उषो॒ यस्मा॑द् दु॒ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छतु
द्वि॒ष॒ते तत् परा॑ वह॒ शप॑ते॒ तत् परा॑ वह
यं द्वि॒ष्मो यश्च॑ नो॒ द्वेष्टि॒ तस्मा॑ एनद् गमयामः
उ॒षा दे॒वी वा॒चा सं॑विदा॒ना वाग् दे॒व्यु॑१षसा॑ संविदा॒ना
उ॒षस्पति॑र्वा॒चस्पति॑ना संविदा॒नो वा॒चस्पति॑रु॒षस्पति॑ना संविदा॒नः
ते॒३मुष्मै॒ परा॑ वहन्त्व॒राया॑न् दु॒र्णाम्नः॑ स॒दान्वाः॑
कु॒म्भीकाः॑ दू॒षीकाः॒ पीय॑कान्
जा॒ग्र॒द्दु॒ष्व॒प्न्यं स्व॑प्नेदुष्व॒प्न्यम्
अना॑गमिष्यतो॒ वरा॒नवि॑त्तेः संक॒ल्पानमु॒च्या द्रु॒हः पाशा॑न्
तद॒मुष्मा॑ अग्ने दे॒वाः परा॑ वहन्तु॒ वघ्रि॒र्यथास॒द् विथु॑रो॒ न सा॒धुः