Kaanda 16, Sukta 5, Verse 1
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ ग्राह्याः॑ पु॒त्रोऽसि य॒मस्य॒ कर॑णः
Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ ग्राह्याः॑ पु॒त्रोऽसि य॒मस्य॒ कर॑णः
अन्त॑कोऽसि मृ॒त्युर॑सि
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निरृ॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः ।
अन्त॑कोऽसि मृ॒त्युर॑सि ।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि
वि॒द्म ते॑ स्वप्न ज॒नित्र॒मभू॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः ।
अन्त॑कोऽसि मृ॒त्युर॑सि ।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ निर्भू॑त्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः ।
अन्त॑कोऽसि मृ॒त्युर॑सि ।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि
वि॒द्म ते॑ स्वप्न ज॒नित्रं॒ परा॑भूत्याः पु॒त्रोऽसि य॒मस्य॒ कर॑णः ।
अन्त॒कोऽसि मृ॒त्युर॑सि ।
तं त्वा॑ स्वप्न॒ तथा॒ सं वि॑द्म॒ स नः॑ स्वप्न दु॒ष्वप्न्या॑त् पाहि
वि॒द्म ते॑ स्वप्न ज॒नित्रं॑ देवजामी॒नां पु॒त्रोऽसि य॒मस्य॒ कर॑णः