Atharva Veda
Kaanda 16, Sukta 1, Verse 1
दुःखमोचनम् ।
अति॑सृष्टो अ॒पां वृ॑ष॒भोऽति॑सृष्टा अ॒ग्नयो॑ दि॒व्याः
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
दुःखमोचनम् ।
अति॑सृष्टो अ॒पां वृ॑ष॒भोऽति॑सृष्टा अ॒ग्नयो॑ दि॒व्याः
रु॒जन् प॑रिरु॒जन् मृ॒णन् प्र॑मृ॒णन्
म्रो॒को म॑नो॒हा ख॒नो नि॑र्दा॒ह आ॑त्म॒दूषि॑स्तनू॒दूषिः॑
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि
तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३ऽस्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः
अ॒पामग्र॑मसि समु॒द्रं वो॒ऽभ्यव॑सृजामि
यो॒३प्स्व॑१ग्निरति॒ तं सृ॑जामि म्रो॒कं ख॒निं त॑नू॒दूषि॑म्
यो व॑ आपो॒ऽग्निरा॑वि॒वेश॒ स ए॒ष यद् वो॑ घो॒रं तदे॒तत्
इन्द्र॑स्य व इन्द्रि॒येणा॒भि षि॑ञ्चेत्
अ॒रि॒प्रा आपो॑ अप॑ रि॒प्रम॒स्मत्
प्रास्मदेनो॑ वहन्तु॒ प्र दु॒ष्वप्न्यं॑ वहन्तु
शि॒वेन॑ मा॒ चक्षु॑षा पश्यतापः शि॒वया॑ त॒न्वोप॑ स्पृशत॒ त्वचं॑ मे
शि॒वान॒ग्नीन॑प्सु॒षदो॑ हवामहे॒ मयि॑ क्ष॒त्रं वर्च॒ आ ध॑त्त देवीः