Atharva Veda
Kaanda 15, Sukta 17, Verse 1
तस्य॒ व्रात्य॑स्य ।
योऽस्य प्रथ॒मो व्या॒नः सेयं भूमिः॑
Containing 10 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्य॒ व्रात्य॑स्य ।
योऽस्य प्रथ॒मो व्या॒नः सेयं भूमिः॑
तस्य॒ व्रात्य॑स्य ।
योऽस्य द्वि॒तीयो॑ व्या॒नस्तद॒न्तरि॑क्षम्
तस्य॒ व्रात्य॑स्य ।
योऽस्य तृ॒तीयो॑ व्या॒नः सा द्यौः
तस्य॒ व्रात्य॑स्य ।
योऽस्य चतु॒र्थो व्या॒नस्तानि॒ नक्ष॑त्राणि
तस्य॒ व्रात्य॑स्य ।
योऽस्य पञ्च॒मो व्या॒नस्त ऋ॒तवः॑
तस्य॒ व्रात्य॑स्य ।
योऽस्य ष॒ष्ठो व्या॒नस्त आ॑र्त॒वाः
तस्य॒ व्रात्य॑स्य ।
योऽस्य सप्त॒मो व्या॒नः स सं॑वत्स॒रः
तस्य॒ व्रात्य॑स्य ।
स॒मा॒नमर्थं॒ परि॑ यन्ति दे॒वाः सं॑वत्स॒रं वा ए॒तदृ॒तवो॑ऽनु॒परि॑यन्ति॒ व्रात्यं॑ च
तस्य॒ व्रात्य॑स्य ।
यदा॑दि॒त्यम॑भिसंवि॒शन्त्य॑मावा॒स्यां चै॒व तत् पौ॑र्णमा॒सीं च॑
तस्य॒ व्रात्य॑स्य ।
एकं॒ तदे॑षाममृत॒त्वमित्याहु॑तिरे॒व