Atharva Veda
Kaanda 15, Sukta 16, Verse 1
तस्य॒ व्रात्य॑स्य ।
योऽस्य प्रथ॒मोऽपा॒नः सा पौ॑र्णमा॒सी
Containing 7 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्य॒ व्रात्य॑स्य ।
योऽस्य प्रथ॒मोऽपा॒नः सा पौ॑र्णमा॒सी
तस्य॒ व्रात्य॑स्य ।
योऽस्य द्वि॒तीयो॑ऽपा॒नः साष्ट॑का
तस्य॒ व्रात्य॑स्य ।
योऽस्य तृ॒तीयो॑ऽपा॒नः सामा॑वा॒स्या
तस्य॒ व्रात्य॑स्य ।
योऽस्य चतु॒र्थोऽपा॒नः सा श्र॒द्धा
तस्य॒ व्रात्य॑स्य ।
योऽस्य पञ्च॒मोऽपा॒नः सा दी॒क्षा
तस्य॒ व्रात्य॑स्य ।
योऽस्य ष॒ष्ठोऽपा॒नः स य॒ज्ञः
तस्य॒ व्रात्य॑स्य ।
योऽस्य सप्त॒मोऽपा॒नस्ता इ॒मा दक्षि॑णाः