Atharva Veda
Kaanda 15, Sukta 15, Verse 1
तस्य॒ व्रात्य॑स्य
Containing 9 sacred Sanskrit shlokas with multi-author commentaries and translations.
तस्य॒ व्रात्य॑स्य
स॒प्त प्रा॒णाः स॒प्तापा॒नाः स॒प्त व्या॒नाः
तस्य॒ व्रात्य॑स्य ।
योऽस्य प्रथ॒मः प्रा॒ण ऊ॒र्ध्वो नामा॒यं सो अ॒ग्निः
तस्य॒ व्रात्य॑स्य ।
योऽस्य द्वि॒तीयः॑ प्रा॒णः प्रौढो॒ नामा॒सौ स आ॑दि॒त्यः
तस्य॒ व्रात्य॑स्य ।
योऽस्य तृ॒तीयः॑ प्रा॒णो॒३ऽभ्यूऽढो॒ नामा॒सौ स च॒न्द्रमाः॑
तस्य॒ व्रात्य॑स्य ।
योऽस्य चतु॒र्थः प्रा॒णो वि॒भूर्नामा॒यं स पव॑मानः
तस्य॒ व्रात्य॑स्य ।
योऽस्य पञ्च॒मः प्रा॒णो योनि॒र्नाम॒ ता इ॒मा आपः॑
तस्य॒ व्रात्य॑स्य ।
योऽस्य ष॒ष्ठः प्रा॒णः प्रि॒यो नाम॒ त इ॒मे प॒शवः॑
तस्य॒ व्रात्य॑स्य ।
योऽस्य सप्त॒मः प्रा॒णोऽप॑रिमितो॒ नाम॒ ता इ॒माः प्र॒जाः