Kaanda 15, Sukta 6, Verse 1
स ध्रु॒वां दिश॒मनु॒ व्यऽचलत्
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
स ध्रु॒वां दिश॒मनु॒ व्यऽचलत्
तं भूमि॑श्चा॒ग्निश्चौष॑धयश्च॒ वन॒स्पत॑यश्च वानस्प॒त्याश्च॑ वी॒रुध॑श्चानु॒व्यऽचलन्
भूमे॑श्च॒ वै सो॒३ग्नेश्चौष॑धीनां च॒ वन॒स्पती॑नां च वानस्प॒त्यानां॑ ।
च वी॒रुधां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑
स ऊ॒र्ध्वां दिश॒मनु॒ व्यऽचलत्
तमृ॒तं च॑ स॒त्यं च॒ सूर्य॑श्च च॒न्द्रश्च॒ नक्ष॑त्राणि चानु॒व्यचलन्
ऋ॒तस्य॑ च॒ वै स स॒त्यस्य॑ च॒ सूर्य॑स्य च च॒न्द्रस्य॑ च॒ नक्ष॑त्राणां च ।
प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑
स उत्त॒मां दिश॒मनु॒ व्यऽचलत्
तमृच॑श्च॒ सामा॑नि च॒ यजूं॑षि च॒ ब्रह्म॑ चानु॒व्यऽचलन्
ऋ॒चां च॒ वै स साम्नां॑ च॒ यजु॑षां च॒ ब्रह्म॑णश्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑
स बृ॑ह॒तीं दिश॒मनु॒ व्यऽचलत्
तमि॑तिहा॒सश्च॑ पुरा॒णं च॒ गाथा॑श्च नाराशं॒सीश्चा॑नु॒व्यऽचलन्
इ॒ति॒हा॒सस्य॑ च॒ वै स पु॑रा॒णस्य॑ च॒ गाथा॑नां च नाराशं॒सीनां॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑
स प॑र॒मां दिश॒मनु॒ व्यऽचलत्
तमा॑हव॒नीय॑श्च॒ गार्ह॑पत्यश्च दक्षिणा॒ग्निश्च॑ य॒ज्ञश्च॒ यज॑मानश्च प॒शव॑श्चानु॒व्यऽचलन्
आ॒ह॒व॒नीय॑स्य च॒ वै स गार्ह॑पत्यस्य च दक्षिणा॒ग्नेश्च॑ य॒ज्ञस्य॑ च॒ यज॑मानस्य च प॒शूनां च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑
सोऽना॑दिष्टां॒ दिश॒मनु॒ व्यऽचलत्
तमृ॒तव॑श्चार्त॒वाश्च॒ लोका॑श्च लौ॒क्याश्च॒ मासा॑श्चार्धमा॒साश्चा॑होरा॒त्रे चा॑नु॒व्यऽचलन्
ऋ॒तू॒नां च॒ वै स आ॑र्त॒वानां॑ च॒ लोका॑नां च लौ॒क्यानां॑ च॒ मासा॑नां चार्धमा॒सानां॑ चाहोरा॒त्रयो॑श्च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑
सोऽना॑वृत्तां॒ दिश॒मनु॒ व्यचल॒त् ततो॒ नाव॒र्त्स्यन्न॑मन्यत
तं दिति॒श्चादि॑ति॒श्चेडा॑ चेन्द्रा॒णी चानु॒व्यऽचलन्
दिते॑श्च॒ वै सोऽदि॑ते॒श्चेडा॑याश्चेन्द्रा॒ण्याश्च॑ प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑
स दिशोऽनु॒ व्यऽचलत्
तं वि॒राडनु॒ व्यऽचल॒त् सर्वे॑ च दे॒वाः सर्वा॑श्च दे॒वताः॑
वि॒राज॑श्च॒ वै स सर्वे॑षां च दे॒वानां॒ सर्वा॑सां च दे॒वतानां प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑
स सर्वा॑नन्तर्दे॒शाननु॒ व्यऽचलत्
तं प्र॒जाप॑तिश्च परमे॒ष्ठी च॑ पि॒ता च॑ पिताम॒हश्चा॑नु॒व्यऽचलन्
प्र॒जाप॑तेश्च॒ वै प॑रमे॒ष्ठिन॑श्च पि॒तुश्च॑ पिताम॒हस्य॑ च प्रि॒यं धाम॑ भवति॒ य ए॒वं वेद॑