Atharva Veda
Kaanda 15, Sukta 3, Verse 1
स सं॑वत्स॒रमू॒र्ध्वोऽतिष्ठ॒त् तं दे॒वा अ॑ब्रुव॒न् व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑
Containing 11 sacred Sanskrit shlokas with multi-author commentaries and translations.
स सं॑वत्स॒रमू॒र्ध्वोऽतिष्ठ॒त् तं दे॒वा अ॑ब्रुव॒न् व्रात्य॒ किं नु ति॑ष्ठ॒सीति॑
सो॑ऽब्रवीदास॒न्दीं मे॒ सं भ॑र॒न्त्विति॑
तस्मै॒ व्रात्या॑यास॒न्दीं सम॑भरन्
तस्या॑ ग्री॒ष्मश्च॑ वस॒न्तश्च॒ द्वौ पादा॒वास्तां॑ श॒रच्च॑ व॒र्षाश्च॒ द्वौ
बृ॒हच्च॑ रथंत॒रं चा॑नू॒च्ये॒३ आस्तां॑ यज्ञाय॒ज्ञियं॑ च वामदे॒व्यं च॑ तिर॒श्च्ये
ऋचः॒ प्राञ्च॒स्तन्त॑वो॒ यजूं॑षि ति॒र्यञ्चः॑
वेद॑ आ॒स्तर॑णं॒ ब्रह्मो॑प॒बर्ह॑णम्
सामा॑सा॒द उ॑द्गी॒थोऽपश्र॒यः
तामा॑स॒न्दीं व्रात्य॒ आरो॑हत्
तस्य॑ देवज॒नाः प॑रिष्क॒न्दा आस॑न्त्संक॒ल्पाः प्र॑हा॒य्या॒३ विश्वा॑नि भू॒तान्यु॑प॒सदः॑
विश्वा॑न्ये॒वास्य॑ भू॒तान्यु॑प॒सदो॑ भवन्ति॒ य ए॒वं वेद॑