Atharva Veda
Kaanda 15, Sukta 1, Verse 1
अध्यात्म-प्रकरणम् ।
व्रात्य॑ आसी॒दीय॑मान ए॒व स प्र॒जाप॑तिं॒ समैरयत्
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
अध्यात्म-प्रकरणम् ।
व्रात्य॑ आसी॒दीय॑मान ए॒व स प्र॒जाप॑तिं॒ समैरयत्
स प्र॒जाप॑तिः सु॒वर्ण॑मा॒त्मन्न॑पश्य॒त् तत् प्राज॑नयत्
त देक॑मभव॒त् तल्ल॒लाम॑मभव॒त् तन्म॒हद॑भव॒त् तज्ज्ये॒ष्ठम॑भव॒त् तद्
ब्रह्मा॑भव॒त् तत् तपो॑ऽभव॒त् तत् स॒त्यम॑भव॒त् तेन॒ प्राजा॑यत
सोऽवर्धत॒ स म॒हान॑भव॒त् स म॑हादे॒वोऽभवत्
स दे॒वाना॑मी॒शां पर्यै॒त् स ईशा॑नोऽभवत्
स ए॑कव्रा॒त्योऽभव॒त् स धनु॒राद॑त्त॒ तदे॒वेन्द्र॑ ध॒नुः
नील॑मस्यो॒दरं॒ लोहि॑तं पृ॒ष्ठम्
नीले॑नै॒वाप्रि॑यं॒ भ्रातृ॑व्यं॒ प्रोर्णो॑ति॒ लोहि॑तेन द्वि॒षन्तं॑ विध्य॒तीति॑ ब्रह्मवा॒दिनो॑ वदन्ति