Kaanda 14, Sukta 2, Verse 1
विवाह-प्रकरणम् ।
तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह ।
स नः॒ पति॑भ्यो जा॒यां दा अग्ने॑ प्र॒जया॑ स॒ह
Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.
विवाह-प्रकरणम् ।
तुभ्य॒मग्रे॒ पर्य॑वहन्त्सू॒र्यां व॑ह॒तुना॑ स॒ह ।
स नः॒ पति॑भ्यो जा॒यां दा अग्ने॑ प्र॒जया॑ स॒ह
पुनः॒ पत्नी॑म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा ।
दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा॑ति श॒रदः॑ श॒तम्
सोम॑स्य जा॒या प्र॑थ॒मं ग॑न्ध॒र्वस्तेऽप॑रः॒ पतिः॑ ।
तृ॒तीयो॑ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः
सोमो॑ ददद् गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये॑ ।
र॒यिं च पु॒त्रांस्चा॑दाद॒ग्निर्मह्य॒मथो॑ इ॒माम्
आ वा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्यश्विना हृ॒त्सु कामा॑ अरंसत ।
अभू॑तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्यां॑ अशीमहि
सा म॑न्दसा॒ना मन॑सा शि॒वेन॑ र॒यिं धे॑हि॒ सर्व॑वीरं वच॒स्यऽम् ।
सु॒गं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं पथि॑ष्ठा॒मप॑ दुर्म॒तिं ह॑तम्
या ओष॑धयो॒ या न॒द्यो॒३ यानि॒ क्षेत्रा॑णि॒ या वना॑ ।
तास्त्वा॑ वधु प्र॒जाव॑तीं॒ पत्ये॑ रक्षन्तु र॒क्षसः॑
एमं पन्था॑मरुक्षाम सु॒गं स्व॑स्ति॒वाह॑नम् ।
यस्मि॑न् वी॒रो न रिष्य॑त्य॒न्येषां॑ वि॒न्दते॒ वसु॑
इ॒दं सु मे॑ नरः शृणुत॒ यया॒शिषा॒ दंप॑ती वा॒मम॑श्नु॒तः ।
ये ग॑न्ध॒र्वा अ॑प्स॒रस॑श्च दे॒वीरे॒षु वा॑नस्प॒त्येषु॒ येऽधि॑ त॒स्थुः ।
स्यो॒नास्ते॑ अ॒स्यै व॒ध्वै भ॑वन्तु॒ मा हिं॑सिषुर्वह॒तुमु॒ह्यमा॑नम्
ये व॒ध्वश्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जनाँ॒ अनु॑ ।
पुन॒स्तान् य॒ज्ञिया॑ दे॒वा नय॑न्तु॒ यत॒ आग॑ताः
मा वि॑दन् परिप॒न्थिनो॒ य आ॒सीद॑न्ति॒ दंपती ।
सु॒गेन॑ दु॒र्गमती॑ता॒मप॑ द्रा॒न्त्वरा॑तयः
सं का॑शयामि वह॒तुं ब्रह्म॑णा गृ॒हैरघो॑रेण॒ चक्षु॑षा मि॒त्रिये॑ण ।
प॒र्याण॑द्धं वि॒श्वरू॑पं॒ यदस्ति॑ स्यो॒नं पति॑भ्यः सवि॒ता तत् कृ॑णोतु
शि॒वा नारी॒यमस्त॒माग॑न्नि॒मं धा॒ता लो॒कम॒स्यै दि॑देश ।
ताम॑र्य॒मा भगो॑ अ॒श्विनो॒भा प्र॒जाप॑तिः प्र॒जया॑ वर्धयन्तु
आ॒त्म॒न्वत्यु॒र्वरा॒ नारी॒यमाग॒न् तस्यां॑ नरो वपत॒ बीज॑मस्याम् ।
सा वः॑ प्र॒जां ज॑नयद् व॒क्षणा॑भ्यो॒ बिभ्र॑ती दु॒ग्धमृ॑ष॒भस्य॒ रेतः॑
प्रति॑ तिष्ठ वि॒राड॑सि॒ विष्णु॑रिवे॒ह स॑रस्वति ।
सिनी॑वालि॒ प्र जा॑यतां॒ भग॑स्य सुम॒ताव॑सत्
उद् व॑ ऊ॒र्मिः शम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत ।
मादु॑ष्कृतौ॒ व्येनसाव॒घ्न्यावशु॑न॒मार॑ताम्
अघो॑रचक्षु॒रप॑तिघ्नी स्यो॒ना श॒ग्मा सु॒शेवा॑ सु॒यमा॑ गृ॒हेभ्यः॑ ।
वी॒रसूर्दे॒वका॑मा॒ सं त्वयै॑धिषीमहि सुमन॒स्यमा॑ना
अदे॑वृ॒घ्न्यप॑तिघ्नी॒हैधि॑ शि॒वा प॒शुभ्यः॑ सु॒यमा॑ सु॒वर्चाः॑ ।
प्र॒जाव॑ती वीर॒सूर्दे॒वका॑मा स्यो॒नेमम॒ग्निं गार्ह॑पत्यं सपर्य
उत् ति॑ष्ठे॒तः किमि॒च्छन्ती॒दमागा॑ अ॒हं त्वे॑डे अभि॒भूः स्वाद् गृ॒हात् ।
शू॒न्यै॒षी नि॑रृते॒ याज॒गन्थोत्ति॑ष्ठाराते॒ प्र प॑त॒ मेह रं॑स्थाः
य॒दा गार्ह॑पत्य॒मस॑पर्यै॒त् पूर्व॑म॒ग्निं व॒धूरि॒यम् ।
अधा॒ सर॑स्वत्यै नारि पि॒तृभ्य॑श्च॒ नम॑स्कुरु
शर्म॒ वर्मै॒तदा ह॑रा॒स्यै नार्या॑ उप॒स्तिरे॑ ।
सिनी॑वालि॒ प्र जा॑यतां॒ भग॑स्य सुम॒ताव॑सत्
यं बल्ब॑जं॒ न्यस्य॑थ॒ चर्म॑ चोपस्तृणी॒थन॑ ।
तदा रो॑हतु सुप्र॒जा या क॒न्या वि॒न्दते॒ पति॑म्
उप॑ स्तृणीहि॒ बल्ब॑ज॒मधि॒ चर्म॑णि॒ रोहि॑ते ।
तत्रो॑प॒विश्य॑ सुप्र॒जा इ॒मम॒ग्निं स॑पर्यतु
आ रो॑ह॒ चर्मोप॑ सीदा॒ग्निमे॒ष दे॒वो ह॑न्ति॒ रक्षां॑सि॒ सर्वा॑ ।
इ॒ह प्र॒जां ज॑नय॒ पत्ये॑ अ॒स्मै सु॑ज्यै॒ष्ठ्यो भ॑वत् पु॒त्रस्त॑ ए॒षः
वि ति॑ष्ठन्तां मा॒तुर॒स्या उ॒पस्था॒न्नाना॑रूपाः प॒शवो॒ जाय॑मानाः ।
सु॒म॒ङ्ग॒ल्युप॑ सीदे॒मम॒ग्निं संप॑त्नी॒ प्रति॑ भूषे॒ह दे॒वान्
सु॒म॒ङ्ग॒ली प्र॒तर॑णी गृ॒हाणां॑ सु॒शेवा॒ पत्ये॒ श्वशु॑राय शं॒भूः ।
स्यो॒ना श्व॒श्र्वै प्र गृ॒हान् वि॑शे॒मान्
स्यो॒ना भ॑व॒ श्वशु॑रेभ्यः स्यो॒ना पत्ये॑ गृ॒हेभ्यः॑ ।
स्यो॒नास्यै सर्व॑स्यै वि॒शे स्यो॒ना पु॒ष्टायै॑षां भव
सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त ।
सौभा॑ग्यम॒स्यै द॒त्त्वा दौर्भा॑ग्यैर्वि॒परे॑तन
या दु॒र्हार्दो॑ युव॒तयो॒ याश्चे॒ह ज॑रती॒रपि॑ ।
वर्चो॒ न्व॑स्यै सं द॒त्ताथास्तं॑ वि॒परे॑तन
रु॒क्म॒प्रस्त॑रणं व॒ह्यं विश्वा॑ रू॒पाणि॒ बिभ्र॑तम् ।
आरो॑हत् सू॒र्या सा॑वि॒त्री बृ॑ह॒ते सौभ॑गाय॒ कम्