Kaanda 14, Sukta 1, Verse 1
विवाह- प्रकरणम् ।
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः ।
ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः
Containing 64 sacred Sanskrit shlokas with multi-author commentaries and translations.
विवाह- प्रकरणम् ।
स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः ।
ऋ॒तेना॑दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः
सोमे॑नादि॒त्या ब॒लिनः॒ सोमे॑न पृथि॒वी म॒ही ।
अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः
सोमं॑ मन्यते पपि॒वान् यत् सं॑पिं॒षन्त्योष॑धिम् ।
सोमं॒ यं ब्र॒ह्माणो॑ वि॒दुर्न तस्या॑श्नाति॒ पार्थि॑वः
यत् त्वा॑ सोम प्र॒पिब॑न्ति॒ तत॒ आ प्या॑यसे॒ पुनः॑ ।
वा॒युः सोम॑स्य रक्षि॒ता समा॑नां॒ मास॒ आकृ॑तिः
आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः ।
ग्राव्णा॒मिच्छृ॒ण्वन् ति॑ष्ठसि॒ न ते॑ अश्नाति॒ पार्थि॑वः
चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् ।
द्यौर्भूमिः॒ कोश॑ आसी॒द् यदया॑त् सू॒र्या पति॑म्
रैभ्या॑सीदनु॒देयी॑ नाराशं॒सी न्योच॑नी ।
सू॒र्याया॑ भ॒द्रमिद् वासो॒ गाथ॑यैति॒ परि॑ष्कृता
स्तोमा॑ आसन् प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः ।
सू॒र्याया॑ अ॒श्विना॑ व॒राग्निरा॑सीत् पुरोग॒वः
सोमो॑ वधू॒युर॑भवद॒श्विना॑स्तामु॒भा व॒रा ।
सू॒र्यां यत् पत्ये॒ शंस॑न्तीं॒ मन॑सा सवि॒ताद॑दात्
मनो॑ अस्या॒ अन॑ आसी॒द् द्यौरा॑सीदु॒त च्छ॒दिः ।
शु॒क्राव॑न॒ड्वाहा॑वास्तां॒ यदया॑त् सू॒र्या पति॑म्
ऋ॒क्सा॒माभ्या॑म॒भिहि॑तौ॒ गावौ॑ ते साम॒नावै॑ताम् ।
श्रोत्रे॑ ते च॒क्रे आ॑स्तां दि॒वि पन्था॑श्चराच॒रः
शुची॑ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः ।
अनो॑ मन॒स्मयं॑ सू॒र्यारो॑हत् प्रय॒ती पति॑म्
सू॒र्याया॑ वह॒तुः प्रागा॑त् सवि॒ता यम॒वासृ॑जत् ।
म॒घासु॑ ह॒न्यन्ते॒ गावः॒ फल्गु॑नीषु॒ व्युऽह्यते
यद॑श्विना पृ॒च्छमा॑ना॒वया॑तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः॑ ।
क्वैकं॑ च॒क्रं वा॑मासी॒त् क्वऽदे॒ष्ट्राय॑ तस्थथुः
यदया॑तं शुभस्पती वरे॒यं सू॒र्यामुप॑ ।
विश्वे॑ दे॒वा अनु॒ तद् वा॑मजानन् पु॒त्रः पि॒तर॑मवृणीत पू॒षा
द्वे ते॑ च॒क्रे सूर्ये॑ ब्र॒ह्माण॑ ऋतु॒था वि॑दुः ।
अथैकं॑ च॒क्रं यद् गुहा॒ तद॑द्धा॒तय॒ इद् वि॒दुः
अ॒र्य॒मणं॑ यजामहे सुब॒न्धुं प॑ति॒वेद॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑ना॒त् प्रेतो मु॑ञ्चामि॒ नामुतः॑
प्रेतो मु॑ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् ।
यथे॒यमि॑न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति
प्र त्वा॑ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द् येन॒ त्वाब॑ध्नात् सवि॒ता सु॒शेवाः॑ ।
ऋ॒तस्य॒ योनौ॑ सुकृ॒तस्य॑ लो॒के स्यो॒नं ते॑ अस्तु स॒हसं॑भलायै
भग॑स्त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना॑ त्वा॒ प्र व॑हतां॒ रथे॑न ।
गृ॒हान् ग॑च्छ गृ॒हप॑त्नी॒ यथासो॑ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि
इ॒ह प्रि॒यं प्र॒जायै॑ ते॒ समृ॑ध्यताम॒स्मिन् गृ॒हे गार्ह॑पत्याय जागृहि ।
ए॒ना पत्या॑ त॒न्वं॑१ सं स्पृ॑श॒स्वाथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि
इ॒हैव स्तं॒ मा वि यौ॑ष्टं॒ विश्व॒मायु॒र्व्यऽश्नुतम् ।
क्रीड॑न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ स्वस्त॒कौ
पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीड॑न्तौ॒ परि॑ यातोऽर्ण॒वम् ।
विश्वा॒न्यो भुव॑ना वि॒चष्ट॑ ऋ॒तूंर॒न्यो वि॒दध॑ज्जायसे॒ नवः॑
नवो॑नवो भवसि॒ जाय॑मा॒नोऽह्नां॑ के॒तुरु॒षसा॑मे॒ष्यग्र॑म् ।
भा॒गं दे॒वेभ्यो॒ वि द॑धास्या॒यन् प्र च॑न्द्रमस्तिरसे दी॒र्घमायुः॑
परा॑ देहि शामु॒ल्यं ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ ।
कृ॒त्यैषा प॒द्वती॑ भू॒त्वा जा॒या वि॑शते॒ पति॑म्
नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्यऽज्यते ।
एध॑न्ते अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते
अ॒श्ली॒ला त॒नूर्भ॑वति॒ रुश॑ती पा॒पया॑मु॒या ।
पति॒र्यद् व॒ध्वो॒३वास॑सः॒ स्वमङ्ग॑मभ्यूर्णु॒ते
आ॒शस॑नं वि॒शस॑न॒मथो॑ अधिवि॒कर्त॑नम् ।
सू॒र्यायाः॑ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मोत शु॑म्भति
तृ॒ष्टमे॒तत् कटु॑कमपा॒ष्ठव॑द् वि॒षव॒न्नैतदत्त॑वे ।
सू॒र्यां यो ब्र॒ह्मा वेद॒ स इद् वाधू॑यमर्हति
स इत् तत् स्यो॒नं ह॑रति ब्र॒ह्मा वासः॑ सुम॒ङ्गल॑म् ।
प्राय॑श्चित्तिं॒ यो अ॒ध्येति॒ येन॑ जा॒या न रिष्य॑ति