Atharva Veda
Kaanda 13, Sukta 5, Verse 14
की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च
Containing 8 sacred Sanskrit shlokas with multi-author commentaries and translations.
की॒र्तिश्च॒ यश॒श्चाम्भ॑श्च॒ नभ॑श्च ब्राह्मणवर्च॒सं चान्नं॑ चा॒न्नाद्यं॑ च
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
न द्वि॒तीयो॒ न तृ॒तीय॑श्चतु॒र्थो नाप्यु॑च्यते ।
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
न प॑ञ्च॒मो न षष्ठः स॑प्त॒मो नाप्यु॑च्यते ।
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
नाष्ट॒मो न न॑व॒मो द॑श॒मो नाप्यु॑च्यते ।
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
स सर्व॑स्मै॒ वि प॑श्यति॒ यच्च॑ प्रा॒णति॒ यच्च॒ न ।
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
तमि॒दं निग॑तं॒ सहः॒ स ए॒ष एक॑ एक॒वृदेक॑ ए॒व ।
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑
सर्वे॑ अस्मिन् दे॒वा ए॑क॒वृतो॑ भवन्ति ।
य ए॒तं दे॒वमे॑क॒वृतं॒ वेद॑