Kaanda 13, Sukta 1, Verse 1
अध्यात्म-प्रकरणम् ।
उ॒देहि॑ वाजि॒न् यो अ॒प्स्व॑१न्तरि॒दं रा॒ष्ट्रं प्र वि॑श सू॒नृता॑वत् ।
यो रोहि॑तो॒ विश्व॑मि॒दं ज॒जान॒ स त्वा॑ रा॒ष्ट्राय॒ सुभृ॑तं बिभर्तु
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
अध्यात्म-प्रकरणम् ।
उ॒देहि॑ वाजि॒न् यो अ॒प्स्व॑१न्तरि॒दं रा॒ष्ट्रं प्र वि॑श सू॒नृता॑वत् ।
यो रोहि॑तो॒ विश्व॑मि॒दं ज॒जान॒ स त्वा॑ रा॒ष्ट्राय॒ सुभृ॑तं बिभर्तु
उद् वाज॒ आ ग॒न् यो अ॒प्स्व॑१न्तर्विश॒ आ रो॑ह॒ त्वद्यो॑नयो॒ याः ।
सोमं॒ दधा॑नो॒ऽप ओष॑धी॒र्गाश्च॑तुष्पदो द्वि॒पद॒ आ वे॑शये॒ह
यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न् ।
आ वो॒ रोहि॑तः शृणवत् सुदानवस्त्रिष॒प्तासो॑ मरुतः स्वादुसंमुदः
रुहो॑ रुरोह॒ रोहि॑त॒ आ रु॑रोह॒ गर्भो॒ जनी॑नां ज॒नुषा॑मु॒पस्थ॑म् ।
ताभिः॒ संर॑ब्ध॒मन्व॑विन्द॒न् षडु॒र्वीर्गा॒तुं प्र॒पश्य॑न्नि॒ह रा॒ष्ट्रमाहाः॑
आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द् व्याऽस्थ॒न्मृधो॒ अभ॑यं ते अभूत् ।
तस्मै॑ ते॒ द्यावा॑पृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहातामि॒ह शक्व॑रीभिः
रोहि॑तो॒ द्यावा॑पृथि॒वी ज॑जान॒ तत्र॒ तन्तुं॑ परमे॒ष्ठी त॑तान ।
तत्र॑ शिश्रिये॒ऽज एक॑पा॒दोऽदृं॑ह॒द् द्यावा॑पृथि॒वी बले॑न
रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृंह॒त् तेन॒ स्वऽ स्तभि॒तं तेन॒ नाकः॑ ।
तेना॒न्तरि॑क्षं॒ विमि॑ता॒ रजां॑सि॒ तेन॑ दे॒वा अ॒मृत॒मन्व॑विन्दन्
वि रोहि॑तो अमृशद् वि॒श्वरू॑पं समाकुर्वा॒णः प्र॒रुहो॒ रुह॑श्च ।
दिवं॑ रू॒ढ्वा म॑ह॒ता म॑हि॒म्ना सं ते॑ रा॒ष्ट्रम॑नक्तु॒ पय॑सा घृ॒तेन॑
यास्ते॒ रुहः॑ प्र॒रुहो॒ यास्त॑ आ॒रुहो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम् ।
तासां॒ ब्रह्म॑णा॒ पय॑सा ववृधा॒नो वि॒शि रा॒ष्ट्रे जा॑गृहि॒ रोहि॑तस्य
यस्ते॒ विश॒स्तप॑सः संबभू॒वुर्व॒त्सं गा॑य॒त्रीमनु॒ ता इ॒हागुः॑ ।
तास्त्वा वि॑शन्तु॒ मन॑सा शि॒वेन॒ संमा॑ता व॒त्सो अ॒भ्येऽतु॒ रोहि॑तः
ऊ॒र्ध्वो रोहि॑तो॒ अधि॒ नाके॑ अस्था॒द् विश्वा॑ रू॒पाणि॑ ज॒नय॒न् युवा॑ क॒विः ।
ति॒ग्मेना॒ग्निर्ज्योति॑षा॒ वि भा॑ति तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑
स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑ ।
मा मा॑ हासीन्नाथि॒तो नेत् त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि
रोहि॑तो य॒ज्ञस्य॑ जनि॒ता मुखं॑ च॒ रोहि॑ताय वा॒चा श्रोत्रे॑ण॒ मन॑सा जुहोमि ।
रोहि॑तं दे॒वा य॑न्ति सुमन॒स्यमा॑नाः॒ स मा॒ रोहैः॑ सामि॒त्यै रो॑हयतु
रोहि॑तो य॒ज्ञं व्यदधाद् वि॒श्वक॑र्मणे॒ तस्मा॒त् तेजां॒स्युप॑ मे॒मान्यागुः॑ ।
वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑
आ त्वा॑ रुरोह बृह॒त्यू३त प॒ङ्क्तिरा क॒कुब् वर्च॑सा जातवेदः ।
आ त्वा॑ रुरोहोष्णिहाक्ष॒रो व॑षट्का॒र आ त्वा॑ रुरोह॒ रोहि॑तो॒ रेत॑सा स॒ह
अ॒यं व॑स्ते॒ गर्भं॑ पृथि॒व्या दिवं॑ वस्ते॒ऽयम॒न्तरि॑क्षम् ।
अ॒यं ब्र॒ध्नस्य॑ वि॒ष्टपि॒ स्वर्लो॒कान् व्याऽनशे
वाच॑स्पते पृथि॒वी नः॑ स्यो॒ना स्यो॒ना योनि॒स्तल्पा॑ नः सु॒शेवा॑ ।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न् पर्य॒ग्निरायु॑षा॒ वर्च॑सा दधातु
वाच॑स्पत ऋ॒तवः॒ पञ्च॒ ये नौ॑ वैश्वकर्म॒णाः परि॒ ये सं॑बभू॒वुः ।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न् परि॒ रोहि॑त॒ आयु॑षा॒ वर्च॑सा दधातु
वाच॑स्पते सौमन॒सं मन॑श्च गो॒ष्ठे नो॒ गा ज॒नय॒ योनि॑षु प्र॒जाः ।
इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न् पर्य॒हमायु॑षा॒ वर्च॑सा दधातु
परि॑ त्वा धात् सवि॒ता दे॒वो अ॒ग्निर्वर्च॑सा मि॒त्रावरु॑णाव॒भि त्वा॑ ।
सर्वा॒ अरा॑तीरव॒क्राम॒न्नेही॒दं रा॒ष्ट्रम॑करः सु॒नृता॑वत्
यं त्वा॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति रोहित ।
शु॒भा या॑सि रि॒णन्न॒पः
अनु॑व्रता॒ रोहि॑णी॒ रोहि॑तस्य सू॒रिः सु॒वर्णा॑ बृह॒ती सु॒वर्चाः॑ ।
तया॒ वाजा॑न् वि॒श्वरू॑पां जयेम॒ तया॒ विश्वाः॒ पृत॑ना अ॒भि ष्या॑म
इ॒दं सदो॒ रोहि॑णी॒ रोहि॑तस्या॒सौ पन्थाः॒ पृष॑ती॒ येन॒ याति॑ ।
तां ग॑न्ध॒र्वाः क॒श्यपा॒ उन्न॑यन्ति॒ तां र॑क्षन्ति क॒वयोऽप्र॑मादम्
सूर्य॒स्याश्वा॒ हर॑यः केतु॒मन्तः॒ सदा॑ वहन्त्य॒मृताः॑ सु॒खं रथ॑म् ।
घृ॒त॒पावा॒ रोहि॑तो॒ भ्राज॑मानो॒ दिवं॑ दे॒वः पृष॑ती॒मा वि॑वेश
यो रोहि॑तो वृष॒भस्ति॒ग्मशृ॑ङ्गः॒ पर्य॒ग्निं परि॒ सूर्यं॑ ब॒भूव॑ ।
यो वि॑ष्ट॒भ्नाति॑ पृथि॒वीं दिवं॑ च॒ तस्मा॑द् दे॒वा अधि॒ सृष्टीः॑ सृजन्ते
रोहि॑तो॒ दिव॒मारु॑हन्मह॒तः पर्य॑र्ण॒वात् ।
सर्वा॑ रुरोह॒ रोहि॑तो॒ रुहः॑
वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा ।
इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व
समि॑द्धो अ॒ग्निः स॑मिधा॒नो घृ॒तवृ॑द्धो घृ॒ताहु॑तः ।
अ॒भी॒षाड् वि॑श्वा॒षाड॒ग्निः स॒पत्ना॑न् हन्तु॒ ये मम॑
हन्त्वे॑ना॒न् प्र द॑ह॒त्वरि॒र्यो नः॑ पृत॒न्यति॑ ।
क्र॒व्यादा॒ग्निना॑ व॒यं स॒पत्ना॒न् प्र द॑हामसि
अ॒वा॒चीना॒नव॑ ज॒हीन्द्र॒ वज्रे॑ण बाहु॒मान् ।
अधा॑ स॒पत्ना॒न् माम॒कान॒ग्नेस्तेजो॑भि॒रादि॑षि