Kaanda 12, Sukta 5, Verse 1
ब्रह्मगवी ।
श्रमे॑ण॒ तप॑सा सृ॒ष्टा ब्रह्म॑णा वि॒त्तर्ते श्रि॒ता
Containing 73 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मगवी ।
श्रमे॑ण॒ तप॑सा सृ॒ष्टा ब्रह्म॑णा वि॒त्तर्ते श्रि॒ता
स॒त्येनावृ॑ता श्रि॒या प्रावृ॑ता॒ यश॑सा॒ परी॑वृता
स्व॒धया॒ परि॑हिता श्र॒द्धया॒ पर्यू॑ढा दी॒क्षया॑ गु॒प्ता य॒ज्ञे प्रति॑ष्ठिता लो॒को नि॒धन॑म्
ब्रह्म॑ पदवा॒यं ब्रा॑ह्म॒णोऽधि॑पतिः
तामा॒ददा॑नस्य ब्रह्मग॒वीं जि॑न॒तो ब्रा॑ह्म॒णं क्ष॒त्रिय॑स्य
अप॑ क्रामति सू॒नृता॑ वी॒र्यं॑१ पुण्या॑ ल॒क्ष्मीः
ओज॑श्च॒ तेज॑श्च॒ सह॑श्च॒ बलं॑ च॒ वाक् चे॑न्द्रि॒यं च॒ श्रीश्च॒ धर्म॑श्च
ब्रह्म॑ च क्ष॒त्रं च॑ रा॒ष्ट्रं च॒ विश॑श्च॒ त्विषि॑श्च॒ यश॑श्च॒ वर्च॑श्च॒ द्रवि॑णं च
आयु॑श्च रू॒पं च॒ नाम॑ च की॒र्तिश्च॑ प्रा॒णश्चा॑पा॒नश्च॒ चक्षु॑श्च॒ श्रोत्रं॑ च
पय॑श्च॒ रस॒श्चान्नं॑ चा॒न्नाद्यं॑ च॒र्तं च॑ स॒त्यं चे॒ष्टं च॑ पू॒र्तं च॑ प्र॒जा च॑ प॒शव॑श्च
तानि॒ सर्वा॒ण्यप॑ क्रामन्ति ब्रह्मग॒वीमा॒ददा॑नस्य जिन॒तो ब्रा॑ह्म॒णं क्ष॒त्रिय॑स्य
सैषा भी॒मा ब्र॑ह्मग॒व्य॑१घवि॑षा सा॒क्षात् कृ॒त्या कूल्ब॑ज॒मावृ॑ता
सर्वा॑ण्यस्यां घो॒राणि॒ सर्वे॑ च मृ॒त्यवः॑
सर्वा॑ण्यस्यां क्रू॒राणि॒ सर्वे॑ पुरुषव॒धाः
सा ब्र॑ह्म॒ज्यं दे॑वपी॒युं ब्र॑ह्मग॒व्याऽदी॒यमा॑ना मृ॒त्योः पद्वी॑श॒ आ द्य॑ति
मे॒निः श॒तव॑धा॒ हि सा ब्र॑ह्म॒ज्यस्य॒ क्षिति॒र्हि सा
तस्मा॒द् वै ब्रा॑ह्म॒णानां॒ गौर्दु॑रा॒धर्षा॑ विजान॒ता
वज्रो॒ धाव॑न्ती वैश्वान॒र उद्वी॑ता
हे॒तिः श॒फानु॑त्खि॒दन्ती॑ महादे॒वो॒३ऽपेक्ष॑माणा
क्षु॒रप॑वि॒रीक्ष॑माणा॒ वाश्य॑माना॒भि स्फू॑र्जति
मृ॒त्युर्हि॑ङ्कृण्व॒त्यु॑१ग्रो दे॒वः पुच्छं॑ प॒र्यस्य॑न्ती
स॒र्व॒ज्या॒निः कर्णौ॑ वरीव॒र्जय॑न्ती राजय॒क्ष्मो मेह॑न्ती
मे॒निर्दु॒ह्यमा॑ना शीर्ष॒क्तिर्दु॒ग्धा
से॒दिरु॑प॒तिष्ठ॑न्ती मिथोयो॒धः परा॑मृष्टा
श॒र॒व्या॒३ मुखे॑ऽपिन॒ह्यमा॑न॒ ऋति॑र्ह॒न्यमा॑ना
अ॒घवि॑षा नि॒पत॑न्ती॒ तमो॒ निप॑तिता
अ॒नु॒गच्छ॑न्ती प्रा॒णानुप॑ दासयति ब्रह्मग॒वी ब्र॑ह्म॒ज्यस्य॑
वैरं॑ विकृ॒त्यमा॑ना॒ पौत्रा॑द्यं विभा॒ज्यमा॑ना
दे॒व॒हे॒तिर्ह्रि॒यमा॑णा॒ व्यृद्धिर्हृ॒ता
पा॒प्माधि॑धी॒यमा॑ना॒ पारु॑ष्यमवधी॒यमाना