Kaanda 11, Sukta 9, Verse 1
शत्रुनिवारणम् ।
ये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्याऽणि च ।
अ॒सीन् प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि ।
सर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
शत्रुनिवारणम् ।
ये बा॒हवो॒ या इष॑वो॒ धन्व॑नां वी॒र्याऽणि च ।
अ॒सीन् प॑र॒शूनायु॑धं चित्ताकू॒तं च॒ यद्धृ॒दि ।
सर्वं॒ तद॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय
उत् ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम् ।
संदृ॑ष्टा गु॒प्ता वः॑ सन्तु॒ या नो॑ मि॒त्राण्य॑र्बुदे
उत् ति॑ष्ठत॒मा र॑भेतामादानसंदा॒नाभ्या॑म् ।
अ॒मित्रा॑णां॒ सेना॑ अ॒भि ध॑त्तमर्बुदे
अर्बु॑दि॒र्नाम॒ यो दे॒व ईशा॑नश्च॒ न्यऽर्बुदिः ।
याभ्या॑म॒न्तरि॑क्ष॒मावृ॑तमि॒यं च॑ पृथि॒वी म॒ही ।
ताभ्या॒मिन्द्र॑मेदिभ्याम॒हं जि॒तमन्वे॑मि॒ सेन॑या
उत् ति॑ष्ठ॒ त्वं दे॑वज॒नार्बु॑दे॒ सेन॑या स॒ह ।
भ॒ञ्जन्न॒मित्रा॑णां॒ सेनां॑ भो॒गेभिः॒ परि॑ वारय
स॒प्त जा॒तान् न्यऽर्बुद उदा॒राणां॑ समी॒क्षय॑न् ।
तेभि॒ष्ट्वमाज्ये॑ हु॒ते सर्वै॒रुत्ति॑ष्ठ॒ सेन॑या
प्र॒ति॒घ्ना॒नाश्रु॑मु॒खी कृ॑धुक॒र्णी च॑ क्रोशतु ।
वि॒के॒शी पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑
सं॒कर्ष॑न्ती क॒रूक॑रं॒ मन॑सा पु॒त्रमि॒च्छ॑न्ती॑ ।
पतिं॒ भ्रात॑र॒मात्स्वान् र॑दि॒ते अ॑र्बुदे॒ तव॑
अ॒लिक्ल॑वा जाष्कम॒दा गृध्राः॑ श्ये॒नाः प॑त॒त्रिणः॑ ।
ध्वाङ्क्षाः॑ श॒कुन॑यस्तृप्यन्त्व॒मित्रे॑षु समी॒क्षय॑न् रदि॒ते अ॑र्बुदे॒ तव॑
अथो॒ सर्वं॒ श्वाप॑दं॒ मक्षि॑का तृप्यतु॒ क्रिमिः॑ ।
पौरु॑षे॒येऽधि॒ कुण॑पे रदि॒ते अ॑र्बुदे॒ तव॑
आ गृ॑ह्णीतं॒ सं बृ॑हतं प्रानापानान् न्य॑र्बुदे ।
नि॒वा॒शा घोषाः॒ सं य॑न्त्व॒मित्रे॑षु समी॒क्षयन् रदि॒ते अ॑र्बुदे॒ तव॑
उद् वे॑पय॒ सं वि॑जन्तां भि॒यामित्रा॒न्त्सं सृ॑ज ।
उ॒रु॒ग्रा॒हैर्बा॑ह्व॒ङ्कैर्विध्या॒मित्रा॑न् न्यर्बुदे
मुह्य॑न्त्वेषां बा॒हव॑श्चित्ताकू॒तं च॒ यद्धृ॒दि ।
मैषा॒मुच्छे॑षि॒ किं च॒न र॑दि॒ते अ॑र्बुदे॒ तव॑
प्र॒ति॒घ्ना॒नाः सं धा॑व॒न्तूरः॑ पटू॒रावा॑घ्ना॒नाः ।
अ॒घा॒रिणी॑र्विके॒श्योऽ रुद॒त्यः॑१ पुरु॑षे ह॒ते र॑दि॒ते अ॑र्बुदे॒ तव॑
श्वऽन्वतीरप्स॒रसो॒ रूप॑का उ॒तार्बु॑दे ।
अ॒न्तः॒पा॒त्रे रेरि॑हतीं रि॒शां दु॑र्णिहितै॒षिणी॑म् ।
सर्वा॒स्ता अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय
ख॒डूरे॑ऽधिचङ्क्र॒मां खर्वि॑कां खर्ववा॒सिनी॑म् ।
य उ॑दा॒रा अ॒न्तर्हि॑ता गन्धर्वाप्स॒रस॑श्च॒ ये ।
स॒र्पा इ॑तरज॒ना रक्षां॑सि
चतुर्दंष्ट्रांछ्या॒वद॑तः कु॒म्भमु॑ष्काँ॒ असृ॑ङ्मुखान् ।
स्व॒भ्य॒सा ये चो॑द्भ्य॒साः
उद् वे॑पय॒ त्वम॑र्बुदे॒ऽमित्रा॑णाम॒मूः सिचः॑ ।
जयां॑श्च जि॒ष्णुश्चा॒मित्रां॒ जय॑ता॒मिन्द्र॑मेदिनौ
प्रब्ली॑नो मृदि॒तः श॑यां ह॒तो॒३मित्रो॑ न्यर्बुदे ।
अ॒ग्नि॒जि॒ह्वा धू॑मशि॒खा जय॑न्तीर्यन्तु॒ सेन॑या
तया॑र्बुदे॒ प्रणु॑त्ताना॒मिन्द्रो॑ हन्तु॒ वरं॑वरम् ।
अ॒मित्रा॑णां॒ शची॒पति॒र्मामीषां॑ मोचि॒ कश्च॒न
उत्क॑सन्तु॒ हृद॑यान्यू॒र्ध्वः प्रा॒ण उदी॑षतु ।
शौ॒ष्का॒स्यमनु॑ वर्तताम॒मित्रा॒न्मोत मि॒त्रिणः॑
ये च॒ धीरा॒ ये चाधी॑राः॒ परा॑ञ्चो बधि॒राश्च॒ ये ।
त॒म॒सा ये च॑ तूप॒रा अथो॑ बस्ताभिवा॒सिनः॑ ।
सर्वां॒स्ताँ अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्रद॑र्शय
अर्बु॑दिश्च॒ त्रिषंधिश्चा॒मित्रा॑न् नो॒ वि वि॑ध्यताम् ।
यथै॑षामिन्द्र वृत्रहन् हना॑म शचीपते॒ऽमित्रा॑णां सहस्र॒शः
वन॒स्पती॑न् वानस्प॒त्यानोष॑धीरु॒त वी॒रुधः॑ ।
ग॒न्ध॒र्वा॒प्स॒रसः॑ स॒र्पान् दे॒वान् पु॑ण्यज॒नान् पि॒तॄ॒न् ।
सर्वां॒स्तां अ॑र्बुदे॒ त्वम॒मित्रे॑भ्यो दृ॒शे कु॑रूदा॒रांश्च॒ प्र द॑र्शय
ई॒शां वो॑ म॒रुतो॑ दे॒व आ॑दि॒त्यो ब्रह्म॑ण॒स्पतिः॑ ।
ई॒शां व॒ इन्द्र॑श्चा॒ग्निश्च॑ धा॒ता मि॒त्रः प्र॒जाप॑तिः ।
ई॒शां व॒ ऋष॑यश्चक्रुर॒मित्रे॑षु समी॒क्षय॑न् रदि॒ते अ॑र्बुदे॒ तव॑
तेषां॒ सर्वे॑षा॒मीशा॑ना॒ उत् ति॑ष्ठत॒ सं न॑ह्यध्वं॒ मित्रा॒ देव॑जना यू॒यम् ।
इ॒मं सं॑ग्रा॒मं सं॒जित्य॑ यथालो॒कं वि ति॑ष्ठध्वम्