Atharva Veda
Kaanda 1, Sukta 18, Verse 1
अलक्ष्मीनाशनम् ।
निर्ल॒क्ष्म्यं ऽ लला॒म्यं॑१ निररा॑तिं सुवामसि ।
अथ॒ या भ॒द्रा तानि॑ नः प्र॒जाया॒ अरा॑तिं नयामसि
Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.
अलक्ष्मीनाशनम् ।
निर्ल॒क्ष्म्यं ऽ लला॒म्यं॑१ निररा॑तिं सुवामसि ।
अथ॒ या भ॒द्रा तानि॑ नः प्र॒जाया॒ अरा॑तिं नयामसि
निरर॑णिं सवि॒ता सा॑विषक् प॒दोर्निर्हस्त॑यो॒र्वरु॑णो मि॒त्रो अ॑र्य॒मा ।
निर॒स्मभ्य॒मनु॑मती॒ ररा॑णा॒ प्रेमां दे॒वा अ॑साविषुः॒ सौभ॑गाय
यत् त॑ आ॒त्मनि॑ त॒न्वां ऽ घो॒रमस्ति॒ यद्वा॒ केशे॑षु प्रति॒चक्ष॑णे वा ।
सर्वं॒ तद्वा॒चाप॑ हन्मो व॒यं दे॒वस्त्वा॑ सवि॒ता सू॑दयतु
रिश्य॑पदीं॒ वृष॑दतीं गोषे॒धां वि॑ध॒मामु॒त ।
वि॒ली॒ढ्यं ऽ लला॒म्यं॑१ ता अ॒स्मन्ना॑शयामसि