Atharva Veda
Kaanda 1, Sukta 17, Verse 1
रुधिरस्रावनिवृत्तये धमनीबन्धनम् ।
अ॒मूर्या यन्ति॑ यो॒षितो॑ हि॒रा लोहि॑तवाससः ।
अ॒भ्रात॑र इव जा॒मय॒स्तिष्ठ॑न्तु ह॒तव॑र्चसः
Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.
रुधिरस्रावनिवृत्तये धमनीबन्धनम् ।
अ॒मूर्या यन्ति॑ यो॒षितो॑ हि॒रा लोहि॑तवाससः ।
अ॒भ्रात॑र इव जा॒मय॒स्तिष्ठ॑न्तु ह॒तव॑र्चसः
तिष्ठा॑वरे॒ तिष्ठ॑ पर उ॒त त्वं ति॑ष्ठ मध्यमे ।
क॒नि॒ष्ठि॒का च॒ तिष्ठ॑ति॒ तिष्ठा॒दिद्ध॒मनि॑र्म॒ही
श॒तस्य॑ ध॒मनी॑नां स॒हस्र॑स्य हि॒राणा॑म् ।
अस्थु॒रिन्म॑ध्य॒मा इ॒माः सा॒कमन्ता॑ अरंसत
परि॑ वः॒ सिक॑तावती ध॒नूर्बृ॑ह॒त्यऽक्रमीत् ।
तिष्ठ॑ते॒लय॑ता॒ सु क॑म्