Atharva Veda
Kaanda 1, Sukta 16, Verse 1
शत्रुबाधनम् ।
येऽमावा॒स्यां॒३ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑ ।
अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत्
Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.
शत्रुबाधनम् ।
येऽमावा॒स्यां॒३ रात्रि॑मु॒दस्थु॑र्व्रा॒जम॒त्त्रिणः॑ ।
अ॒ग्निस्तु॒रीयो॑ यातु॒हा सो अ॒स्मभ्य॒मधि॑ ब्रवत्
सीसा॒याध्या॑ह॒ वरु॑णः॒ सीसा॑या॒ग्निरुपा॑वति ।
सीसं॑ म॒ इन्द्रः॒ प्राय॑च्छ॒त् तद॒ङ्ग या॑तु॒चात॑नम्
इ॒दं विष्क॑न्धं सहत इ॒दं बा॑धते अ॒त्त्रिणः॑ ।
अ॒नेन॒ विश्वा॑ ससहे॒ या जा॒तानि॑ पिशा॒च्याः
यदि॑ नो॒ गां हंसि॒ यद्यश्वं॒ यदि॒ पूरु॑षम् ।
तं त्वा॒ सीसे॑न विध्यामो॒ यथा॒ नोऽसो॒ अवी॑रहा