Atharva Veda
Kaanda 1, Sukta 12, Verse 1
यक्ष्मनाशनम् ।
ज॒रा॒यु॒जः प्र॑थ॒म उ॒स्रियो॒ वृषा॒ वात॑भ्रजा स्त॒नय॑न्नेति वृ॒ष्ट्या ।
स नो॑ मृडाति त॒न्व ऋजु॒गो रु॒जन् य एक॒मोज॑स्त्रे॒धा वि॑चक्र॒मे
Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.
यक्ष्मनाशनम् ।
ज॒रा॒यु॒जः प्र॑थ॒म उ॒स्रियो॒ वृषा॒ वात॑भ्रजा स्त॒नय॑न्नेति वृ॒ष्ट्या ।
स नो॑ मृडाति त॒न्व ऋजु॒गो रु॒जन् य एक॒मोज॑स्त्रे॒धा वि॑चक्र॒मे
अङ्गे॑ अङ्गे शो॒चिषा॑ शिश्रिया॒णं न॑म॒स्यन्त॑स्त्वा ह॒विषा॑ विधेम ।
अ॒ङ्कान्त्स॑म॒ङ्कान् ह॒विषा॑ विधेम॒ यो अग्र॑भी॒त् पर्वा॑स्या॒ ग्रभी॑ता
मु॒ञ्च शी॑र्ष॒क्त्या उ॒त का॒स ए॑नं॒ परु॑ष्परुरावि॒वेशा॒ यो अ॑स्य ।
यो अ॑भ्र॒जा वा॑त॒जा यश्च॒ शुष्मो॒ वन॒स्पती॑न्त्सचतां॒ पर्व॑तांश्च
शं मे॒ पर॑स्मै॒ गात्रा॑य॒ शम॒स्त्वव॑राय मे ।
शं मे॑ च॒तुर्भ्यो॒ अङ्गे॑भ्यः॒ शम॑स्तु त॒न्वे॒३मम॑