Atharva Veda
Kaanda 1, Sukta 6, Verse 1
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं योर॒भि स्र॑वन्तु नः
Containing 4 sacred Sanskrit shlokas with multi-author commentaries and translations.
शं नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं योर॒भि स्र॑वन्तु नः
अ॒प्सु मे॒ सोमो॑ अब्रवीद॒न्तर्विश्वा॑नि भेष॒जा ।
अ॒ग्निं च॑ वि॒श्वशं॑ भुवम्
आपः॑ पृणी॒त भे॑ष॒जं वरू॑थं त॒न्वे॒३ म॑म ।
ज्योक् च॒ सूर्यं॑ दृ॒शे॑
शं न॒ आपो॑ धन्व॒न्या॒३ शमु॑ सन्त्वनू॒प्याः ।
शं नः॑ खनि॒त्रिमा॒ आपः॒ शमु॒ याः कु॒म्भ आभृ॑ताः शि॒वा नः॑ सन्तु॒ वार्षि॑कीः