Kaanda 10, Sukta 10, Verse 1
वशा गौः ।
नम॑स्ते॒ जाय॑मानायै जा॒ताया॑ उ॒त ते॒ नमः॑ ।
बाले॑भ्यः श॒फेभ्यो॑ रू॒पाया॑घ्न्ये ते॒ नमः॑
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
वशा गौः ।
नम॑स्ते॒ जाय॑मानायै जा॒ताया॑ उ॒त ते॒ नमः॑ ।
बाले॑भ्यः श॒फेभ्यो॑ रू॒पाया॑घ्न्ये ते॒ नमः॑
यो वि॒द्यात् स॒प्त प्र॒वतः॑ स॒प्त वि॒द्यात् प॑रा॒वतः॑ ।
शिरो॑ य॒ज्ञस्य॒ यो वि॒द्यात् स व॒शां प्रति॑ गृह्णीयात्
वेदा॒हं स॒प्त प्र॒वतः॑ स॒प्त वे॑द परा॒वतः॑ ।
शिरो॑ य॒ज्ञस्या॒हं वे॑द॒ सोमं॑ चास्यां विचक्ष॒णम्
यया॒ द्यौर्यया॑ पृथि॒वी ययापो॑ गुपि॒ता इ॒माः ।
व॒शां स॒हस्र॑धारां॒ ब्रह्म॑णा॒च्छाव॑दामसि
श॒तं कं॒साः श॒तं दो॒ग्धारः॑ श॒तं गो॒प्तारो॒ अधि॑ पृ॒ष्ठे अ॑स्याः ।
ये दे॒वास्तस्यां॑ प्रा॒णन्ति॒ ते व॒शां वि॑दुरेक॒धा
य॒ज्ञ॒प॒दीरा॑क्षीरा स्व॒धाप्रा॑णा म॒हीलु॑का ।
व॒शा प॒र्जन्य॑पत्नी दे॒वाँ अप्ये॑ति॒ ब्रह्म॑णा
अनु॑ त्वा॒ग्निः प्रावि॑श॒दनु॒ सोमो॑ वशे त्वा ।
ऊध॑स्ते भद्रे प॒र्जन्यो॑ वि॒द्युत॑स्ते॒ स्तना॑ वशे
अ॒पस्त्वं धु॑क्षे प्रथ॒मा उ॒र्वरा॒ अप॑रा वशे ।
तृ॒तीयं॑ रा॒ष्ट्रं धु॒क्षेऽन्नं॑ क्षी॒रं व॑शे॒ त्वम्
यदा॑दि॒त्यैर्हू॒यमा॑नो॒पाति॑ष्ठ ऋतवरि ।
इन्द्रः॑ स॒हस्रं॒ पात्रा॒न्त्सोमं॑ त्वापाययद् वशे
यद॒नूचीन्द्र॒मैरात् त्व॑ ऋष॒भोऽह्वयत् ।
तस्मा॑त् ते वृत्र॒हा पयः॑ क्षी॒रं क्रु॒द्धोऽहरद् वशे
यत् ते॑ क्रु॒द्धो धन॑पति॒रा क्षी॒रमह॑रद् वशे ।
इ॒दं तद॒द्य नाक॑स्त्रि॒षु पात्रे॑षु रक्षति
त्रि॒षु पात्रे॑षु॒ तं सोम॒मा दे॒व्यऽहरद् व॒शा ।
अथ॑र्वा॒ यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑
सं हि सोमे॒नाग॑त॒ समु॒ सर्वे॑ण प॒द्वता॑ ।
व॒शा स॑मु॒द्रमध्य॑ष्ठाद् गन्धर्वैः क॒लिभिः॑ स॒ह
सं हि वाते॒नाग॑त॒ समु॒ सर्वैः॑ पत॒त्रिभिः॑ ।
व॒शा स॑मु॒द्रे प्रानृ॑त्य॒दृचः॒ सामा॑नि॒ बिभ्र॑ती
सं हि सूर्ये॒णाग॑त॒ समु॒ सर्वे॑ण॒ चक्षु॑षा ।
व॒शा स॑मु॒द्रमत्य॑ख्यद् भ॒द्रा ज्योतीं॑षि॒ बिभ्र॑ती
अ॒भीवृ॑ता॒ हिर॑ण्येन॒ यदति॑ष्ठ ऋतावरि ।
अश्वः॑ समु॒द्रो भू॒त्वाध्य॑स्कन्दद् वशे त्वा
तद् भ॒द्राः सम॑गच्छन्त व॒शा देष्ट्र्यथो॑ स्व॒धा ।
अथ॑र्वा॒ यत्र॑ दीक्षि॒तो ब॒र्हिष्यास्त॑ हिर॒ण्यये॑
व॒शा मा॒ता रा॑ज॒न्यऽस्य व॒शा मा॒ता स्व॑धे॒ तव॑ ।
व॒शाया॑ य॒ज्ञ आयु॑धं॒ तत॑श्चि॒त्तम॑जायत
ऊ॒र्ध्वो बि॒न्दुरुद॑चर॒द् ब्रह्म॑णः॒ ककु॑दा॒दधि॑ ।
तत॒स्त्वं ज॑ज्ञिषे वशे॒ ततो॒ होता॑जायत
आ॒स्नस्ते॒ गाथा॑ अभवन्नु॒ष्णिहा॑भ्यो॒ बलं॑ वशे ।
पा॒ज॒स्याऽज्जज्ञे य॒ज्ञ स्तने॑भ्यो र॒श्मय॒स्तव॑
ई॒र्माभ्या॒मय॑नं जा॒तं सक्थि॑भ्यां च वशे॒ तव॑ ।
आ॒न्त्रेभ्यो॑ जज्ञिरे अ॒त्रा उ॒दरा॒दधि॑ वी॒रुधः॑
यदु॒दरं॒ वरु॑णस्यानु॒प्रावि॑शथा वशे ।
तत॑स्त्वा ब्र॒ह्मोद॑ह्वय॒त् स हि ने॒त्रमवे॒त् तव॑
सर्वे॒ गर्भा॑दवेपन्त॒ जाय॑मानादसू॒स्वः ।
स॒सूव॒ हि तामा॒हुव॒शेति॒ ब्रह्म॑भिः क्लृप्तः स ह्यऽस्या॒ बन्धुः॑
युध॒ एकः॒ सं सृ॑जति॒ यो अ॑स्या॒ एक॒ इद् व॒शी ।
तरां॑सि य॒ज्ञा अ॑भव॒न् तर॑सां॒ चक्षु॑रभवद् व॒शा
व॒शा य॒ज्ञं प्रत्य॑गृह्णाद् व॒शा सूर्य॑मधारयत् ।
व॒शाया॑म॒न्तर॑विशदोद॒नो ब्र॒ह्मणा॑ स॒ह
व॒शामे॒वामृत॑माहुर्व॒शां मृ॒त्युमुपा॑सते ।
व॒शेदं सर्व॑मभवद् दे॒वा म॑नु॒ष्या॒३ असु॑राः पि॒तर॒ ऋष॑यः
य ए॒वं वि॒द्यात् स व॒शां प्रति॑ गृह्णीयात् ।
तथा॑ हि य॒ज्ञः सर्व॑पाद् दु॒हे दा॒त्रेऽन॑पस्फुरन्
ति॒स्रो जि॒ह्वा वरु॑णस्या॒न्तर्दी॑द्यत्या॒सनि॑ ।
तासां॒ या मध्ये॒ राज॑ति॒ सा व॒शा दु॑ष्प्रति॒ग्रहा॑
च॒तु॒र्धा रेतो॑ अभवद् व॒शायाः॑ ।
आप॒स्तुरी॑यम॒मृतं॒ तुरी॑यं य॒ज्ञस्तुरी॑यं प॒शव॒स्तुरी॑यम्
व॒शा द्यौर्व॒शा पृ॑थि॒वी व॒शा विष्णुः॑ प्र॒जाप॑तिः ।
व॒शाया॑ दु॒ग्धम॑पिबन्त्सा॒ध्या वस॑वश्च॒ ये