Kaanda 10, Sukta 8, Verse 1
ज्येष्ठब्रह्मवर्णनम् ।
यो भू॒तं च॒ भव्यं॑ च॒ सर्वं॒ यश्चा॑धि॒तिष्ठ॑ति ।
स्व॑१र्यस्य॑ च॒ केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑
Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.
ज्येष्ठब्रह्मवर्णनम् ।
यो भू॒तं च॒ भव्यं॑ च॒ सर्वं॒ यश्चा॑धि॒तिष्ठ॑ति ।
स्व॑१र्यस्य॑ च॒ केव॑लं॒ तस्मै॑ ज्ये॒ष्ठाय॒ ब्रह्म॑णे॒ नमः॑
स्क॒म्भेने॒मे विष्ट॑भिते॒ द्यौश्च॒ भूमि॑श्च तिष्ठतः ।
स्क॒म्भ इ॒दं सर्व॑मात्म॒न्वद् यत् प्रा॒णन्नि॑मि॒षच्च॒ यत्
ति॒स्रो ह॑ प्र॒जा अ॑त्या॒यमा॑य॒न् न्य॑१न्या अ॒र्कम॒भितो॑ऽविशन्त ।
बृ॒हन् ह॑ तस्थौ॒ रज॑सो वि॒मानो॒ हरि॑तो॒ हरि॑णी॒रा वि॑वेश
द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या॑नि॒ क उ॒ तच्चि॑केत ।
तत्राह॑ता॒स्त्रीणि॑ श॒तानि॑ श॒ङ्कवः॑ ष॒ष्टिश्च॒ खीला॒ अवि॑चाचला॒ ये
इ॒दं स॑वित॒र्वि जा॑नीहि॒ षड् य॒मा एक॑ एक॒जः ।
तस्मि॑न् हापि॒त्वमि॑छन्ते॒ य ए॑षा॒मेक॑ एक॒जः
आ॒विः सन्निहि॑तं॒ गुहा॒ जर॒न्नाम॑ म॒हत् प॒दम् ।
तत्रे॒दं सर्व॒मार्पि॑त॒मेज॑त् प्रा॒णत् प्रति॑ष्ठितम्
एक॑चक्रं वर्तत॒ एक॑नेमि स॒हस्रा॑क्षरं॒ प्र पु॒रो नि प॒श्चा ।
अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क्व॑१तद् ब॑भूव
प॒ञ्च॒वा॒ही व॑ह॒त्यग्र॑मेषां॒ प्रष्ट॑यो यु॒क्ता अ॑नु॒संव॑हन्ति ।
अया॑तमस्य ददृ॒शे न या॒तं परं॒ नेदी॒योऽव॑रं॒ दवी॑यः
ति॒र्यग्बि॑लश्चम॒स ऊ॒र्ध्वबु॑ध्न॒स्तस्मि॒न् यशो॒ निहि॑तं वि॒श्वरू॑पम् ।
तदा॑सत॒ ऋष॑यः स॒प्त सा॒कं ये अ॒स्य गो॒पा म॑ह॒तो ब॑भू॒वुः
या पु॒रस्ता॑द् यु॒ज्यते॒ या च॑ प॒श्चाद् या वि॒श्वतो॑ यु॒ज्यते॒ या च॑ स॒र्वतः॑ ।
यया॑ य॒ज्ञः प्राङ् ता॒यते॒ तां त्वा॑ पृछामि कत॒मा सर्चाम्
यदेज॑ति॒ पत॑ति॒ यच्च॒ तिष्ठ॑ति प्रा॒णदप्रा॑णन्निमि॒षच्च॒ यद् भुव॑त् ।
तद् दा॑धार पृथि॒वीं वि॒श्वरू॑पं॒ तत् सं॒भूय॑ भ॒वत्येक॑मे॒व
अ॒न॒न्तं वित॑तं पुरु॒त्रान॒न्तमन्त॑वच्चा॒ सम॑न्ते ।
ते ना॑कपा॒लश्च॑रति विचि॒न्वन् वि॒द्वान् भू॒तमु॒त भव्य॑मस्य
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तरदृ॑श्यमानो बहु॒धा वि जा॑यते ।
अ॒र्धेन॒ विश्वं॒ भुव॑नं ज॒जान॒ यद॑स्या॒र्धं क॑त॒मः स के॒तुः
ऊ॒र्ध्वं भर॑न्तमुद॒कं कु॒म्भेने॑वोदहा॒र्यऽम् ।
पश्य॑न्ति॒ सर्वे॒ चक्षु॑षा॒ न सर्वे॒ मन॑सा विदुः
दू॒रे पू॒र्णेन॑ वसति दू॒र ऊ॒नेन॑ हीयते ।
म॒हद् य॒क्षं भुव॑नस्य॒ मध्ये॒ तस्मै॑ ब॒लिं रा॑ष्ट्र॒भृतो॑ भरन्ति
यतः॒ सूर्यः॑ उ॒देत्यस्तं॒ यत्र॑ च॒ गच्छ॑ति ।
तदे॒व म॑न्ये॒ऽहं ज्ये॒ष्ठं तदु॒ नात्ये॑ति॒ किं च॒न
ये अ॒र्वाङ् मध्य॑ उ॒त वा॑ पुरा॒णं वेदं॑ वि॒द्वांस॑म॒भितो॒ वद॑न्ति ।
आ॒दि॒त्यमे॒व ते परि॑ वदन्ति॒ सर्वे॑ अ॒ग्निं द्वि॒तीयं॑ त्रि॒वृतं॑ च हं॒सम्
स॒ह॒स्रा॒ह्ण्यं विय॑तावस्य प॒क्षौ हरे॑र्हं॒सस्य॒ पत॑तः स्व॒र्गम् ।
स दे॒वान्त्सर्वा॒नुर॑स्युप॒दद्य॑ सं॒पश्य॑न् याति॒ भुव॑नानि॒ विश्वा॑
स॒त्येनो॒र्ध्वस्त॑पति॒ ब्रह्म॑णा॒र्वाङ् वि प॑श्यति ।
प्रा॒णेन॑ ति॒र्यङ् प्राण॑ति॒ यस्मि॑न् ज्ये॒ष्ठमधि॑ श्रि॒तम्
यो वै ते वि॒द्याद॒रणी॒ याभ्यां॑ निर्म॒थ्यते॒ वसु॑ ।
स वि॒द्वान् ज्ये॒ष्ठं म॑न्येत॒ स वि॑द्या॒द् ब्राह्म॑णं म॒हत्
अ॒पादग्रे॒ सम॑भव॒त् सो अग्रे॒ स्व॑१राभ॑रत् ।
चतु॑ष्पाद् भू॒त्वा भोग्यः॒ सर्व॒माद॑त्त॒ भोज॑नम्
भोग्यो॑ भव॒दथो॒ अन्न॑मदद् ब॒हु ।
यो दे॒वमु॑त्त॒राव॑न्तमु॒पासा॑तै सना॒तन॑म्
स॒ना॒तन॑मेनमाहुरु॒ताद्य स्या॒त् पुन॑र्णवः ।
अ॒हो॒रा॒त्रे प्र जा॑येते अ॒न्यो अ॒न्यस्य॑ रू॒पयोः॑
श॒तं स॒हस्र॑म॒युतं॒ न्यऽर्बुदमसंख्ये॒यं स्वम॑स्मि॒न् निवि॑ष्टम् ।
तद॑स्य घ्नन्त्यभि॒पश्य॑त ए॒व तस्मा॑द् दे॒वो रो॑चत ए॒ष ए॒तत्
बाला॒देक॑मणीय॒स्कमु॒तैकं॒ नेव॑ दृश्यते ।
ततः॒ परि॑ष्वजीयसी दे॒वता॒ सा मम॑ प्रि॒या
इ॒यं क॑ल्या॒ण्य॑१जरा॒ मर्त्य॑स्या॒मृता॑ गृ॒हे ।
यस्मै॑ कृ॒ता शये॒ स यश्च॒कार॑ ज॒जार॒ सः
त्वं स्त्री त्वं पुमा॑नसि॒ त्वं कु॑मा॒र उ॒त वा॑ कुमा॒री ॥
त्वं जी॒र्णो द॒ण्डेन॑ वञ्चसि॒ त्वं जा॒तो भ॑वसि वि॒श्वतो॑मुखः
उ॒तैषां॑ पि॒तोत वा॑ पु॒त्र ए॑षामु॒तैषां॑ ज्ये॒ष्ठ उ॒त वा॑ कनि॒ष्ठः ।
एको॑ ह दे॒वो मन॑सि॒ प्रवि॑ष्टः प्रथ॒मो जा॒तः स उ॒ गर्भे॑ अ॒न्तः
पू॒र्णात् पू॒र्णमुद॑चति पू॒र्णं पू॒र्णेन॑ सिच्यते ।
उ॒तो तद॒द्य वि॑द्याम॒ यत॒स्तत् प॑रिषि॒च्यते॑
ए॒षा स॒नत्नी॒ सन॑मे॒व जा॒तैषा पु॑रा॒णी परि॒ सर्वं॑ बभूव ।
म॒ही दे॒व्यु॑१षसो॑ विभा॒ती सैके॑नैकेन मिष॒ता वि च॑ष्टे