Kaanda 10, Sukta 5, Verse 1
विजयप्राप्तिः ।
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ ।
जि॒ष्णवे॒ योगा॑य ब्रह्मयो॒गैर्वो॑ युनज्मि
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
विजयप्राप्तिः ।
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ ।
जि॒ष्णवे॒ योगा॑य ब्रह्मयो॒गैर्वो॑ युनज्मि
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ ।
जि॒ष्णवे॒ योगा॑य क्षत्रयो॒गैर्वो॑ युनज्मि
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ ।
जि॒ष्णवे॒ योगा॑येन्द्रयो॒गैर्वो॑ युनज्मि
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ ।
जि॒ष्णवे॒ योगा॑य सोमयो॒गैर्वो॑ युनज्मि
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ ।
जि॒ष्णवे॒ योगा॑याप्सुयो॒गैर्वो युनज्मि
इन्द्र॒स्यौज॒ स्थेन्द्र॑स्य॒ सह॒ स्थेन्द्र॑स्य॒ बलं॒ स्थेन्द्र॑स्य वी॒र्यं॑१ स्थेन्द्र॑स्य नृ॒म्णं स्थ॑ ।
जि॒ष्णवे॒ योगा॑य॒ विश्वा॑नि मा भू॒तान्युप॑ तिष्ठन्तु यु॒क्ता म॑ आप स्थ
अ॒ग्नेर्भा॒ग स्थ॑ ।
अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त ।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये
इन्द्र॑स्य भा॒ग स्थ॑ ।
अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त ।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये
सोम॑स्य भा॒ग स्थ ।
अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त ।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये
वरु॑णस्य भा॒ग स्थ॑ ।
अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त ।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये
मि॒त्रावरु॑णयोर्भा॒ग स्थ॑ ।
अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त ।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये
य॒मस्य॑ भा॒ग स्थ॑ ।
अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त ।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये
पि॒तॄ॒णां भा॒ग स्थ॑ ।
अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त ।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये
दे॒वस्य॑ सवि॒तुर्भा॒ग स्थ॑ ।
अ॒पां शु॒क्रमा॑पो देवी॒र्वर्चो॑ अ॒स्मासु॑ धत्त ।
प्र॒जाप॑तेर्वो॒ धाम्ना॒स्मै लो॒काय॑ सादये
यो व॑ आपो॒ऽपां भा॒गो॒३प्स्व॑न्तर्य॑जु॒ष्योऽदेव॒यज॑नः ।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या
यो व॑ आपो॒ऽपामू॒र्मिर॒प्स्व॑१न्तर्य॑जु॒ष्योऽदेव॒यज॑नः ।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या
यो व॑ आ॒पोऽपां व॒त्त्सो॒ऽप्स्व॑१न्तर्य॑जु॒ष्योऽदेव॒यज॑नः ।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या
यो व॑ आपो॒ऽपां वृ॑ष॒भो॒ऽ३प्स्व॑न्तर्य॑जु॒ष्योऽदेव॒यज॑नः ॥
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या
यो व॑ आपो॒ऽपां हि॑रण्यग॒र्भो॒३प्स्व॑न्तर्य॑जु॒ष्योऽदेव॒यज॑नः ।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या
यो व॑ आपो॒ऽपामश्मा॒ पृश्नि॑र्दि॒व्यो॒३प्स्व॑१न्तर्य॑जु॒ष्योऽदेव॒यज॑नः ।
इ॒दं तमति॑ सृजामि॒ तं माभ्यव॑निक्षि ।
तेन॒ तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या
यो व॑ आपो॒ऽपाम॒ग्नयो॒प्स्व॑१न्तर्य॑जु॒ष्योऽ देव॒यज॑नः ।
इ॒दं तानति॑ सृजामि॒ तान् माभ्यव॑निक्षि ।
तैस्तम॒भ्यति॑सृजामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
तं व॑धेयं॒ तं स्तृ॑षीया॒नेन॒ ब्रह्म॑णा॒नेन॒ कर्म॑णा॒नया॑ मे॒न्या
यद॑र्वा॒चीनं॑ त्रैहाय॒णादनृ॑तं॒ किं चो॑दि॒म ।
आपो॑ मा॒ तस्मा॒त् सर्व॑स्माद् दुरि॒तात् पा॒न्त्वंह॑सः
स॒मु॒द्रं वः॒ प्र हि॑णोमि॒ स्वां योनि॒मपी॑तन ।
अरि॑ष्टाः॒ सर्व॑हायसो॒ मा च॑ नः॒ किं च॒नाम॑मत्
अ॒रि॒प्रा आपो॒ अप॑ रि॒प्रम॒स्मत् ।
प्रास्मदेनो॑ दुरि॒तं सु॒प्रती॑काः॒ प्र दु॒ष्वप्न्यं॒ प्र मलं॑ वहन्तु
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा पृ॑थि॒वीसं॑शितो॒ऽग्निते॑जाः ।
पृ॒थि॒वीमनु॒ वि क्र॑मे॒ऽहं पृ॑थि॒व्यास्तं निर्भ॑जामो॒ यो॒३स्मा॑न् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हान्तरि॑क्षसंशितो वा॒युते॑जाः ।
अ॒न्तरि॑क्ष॒मनु॒ वि क्र॑मे॒ऽहम॒न्तरि॑क्षा॒त् तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा द्यौसं॑शितः॒ सूर्य॑तेजाः ।
दिव॒मनु॒ वि क्र॑मे॒ऽहं दि॒वस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा दिक्सं॑शितो॒ मन॑स्तेजाः ।
दिशोऽनु॒ वि क्र॑मे॒ऽहं दि॒ग्भ्यस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हाशा॑संशितो॒ वात॑तेजाः ।
आशा॒ अनु॒ वि क्र॑मे॒ऽहमाशा॑भ्य॒स्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु
विष्णोः॒ क्रमो॑ऽसि सपत्न॒हा ऋक्सं॑शितः॒ साम॑तेजाः ।
ऋचोऽनु॒ वि क्र॑मे॒ऽहमृ॒ग्भ्यस्तं निर्भ॑जामो॒ यो॒३स्मान् द्वेष्टि॒ यं व॒यं द्वि॒ष्मः ।
स मा जी॑वी॒त् तं प्रा॒णो ज॑हातु