Complete Upanishad, Verse 1
आरुणिकोपनिषत्
॥
आरुणिकोपनिषत् ॥
16
आरुणिकाख्योपनिषत्ख्यातसंन्यासिनोऽमलाः ।
यत्प्रबोधाद्यान्ति मुक्तिं तद्रामब्रह्म मे गतिः ॥
ॐ आप्यायन्त्विति शान्तिः ॥
ॐ आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम ।
तं
गत्वोवाच ।
केन भगवन्कर्माण्यशेषतो विसृजामीति ।
तं होवाच प्रजापतिस्तव
पुत्रान्भ्रातॄन्बन्ध्वादीञ्छिखां यज्ञोपवीतं यागं
स्वाध्यायं
भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनोलोकतपोलोकसत्यलोकं
चातलतलातलवितलसुतलरसातलमहातलपातालं ब्रह्माण्डं
च विसृजेत् ।
दण्डमाच्छादनं चैव कौपीनं च
परिग्रहेत् ।
शेषं विसृजेदिति